पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरोचकाः स्युः ............. अरोचकनिदानम् १४॥ ७६ अथ चतुर्दशमरोचक-निदानम् ॥ १४ ॥ हेतुः-वातादिभिः शोकभयातिलोभनौधर्मनोघ्नाशनरूपगन्धेः । ॥१॥ अरोचकमाह-वातादिभिरिति । वातादिमिर्दोषः :-तथा शोकादिकोधा- न्तैहे तुभिः,मनोना:-अप्रियाः, अशनरूपगन्धास्तैर्वा अरोचकाः स्युः॥१॥ वातपित्तकफजा मुखरसा:- "परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन । कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्यालवणं च वक्त्रम् । माधुर्यपैच्छिल्यगुरुत्वशैत्यविबद्धसंबद्धयुतं कफेन ॥२॥ वातादिपृथग्लक्षणान्याह-परिहष्टेत्यादिना । अनिलेन-वातिकारोचकेन, परिहृष्टदन्तः-अम्लभक्षणेनेव, कषायवक्त्रश्च भवति । पित्तेन कट्वालमुष्णं, विरसं-गतस्वाद, पूति - दुर्गन्ध, च विद्यात् । कफेन, वक्रम्-आनन, लवणं विदग्धकफस्य लवणरसत्वात् । विबद्धसम्बद्धयुतं- विबद्धं च तत्सम्बद्धयुत. न्चेति विग्रहः । विबद्ध बद्धमिवाशनासामर्थ्यात् , सम्बद्धयुतं श्लेष्मण इति शेषः । कफलिप्तमित्यर्थः ( भावे क्तप्रत्ययः)॥२॥ दोषरूपाणि- हृच्छूलपीडनयुत पवनेन, पित्तामुदाहचोषबहुलं, सकफप्रसेकम् । श्लेष्मात्मक, बहुरुज बहुभिश्च विद्याद्वैगुण्यमोहजडतामिरथापरं च ॥३॥ दोषभेदेन मुखविकृतिमभिधायान्यदेशविकारमध्याह-पवनेन-वातोत्पन्न- मरोचकम् , हृच्छूलपीडनयुतं भवेत् । पित्तादुत्पन्न-तृडदाहचोषबहुल चोषः- चूषणबद्वेदनोपलब्धिः। श्लेष्मात्मकन्तु-कफप्रसकादियुतम्। बहुभिदोषैर्जा. तम् , बहुरुज-वातादिपीडोपेतम् , अपरम् - भागन्तुजम् , वैगुण्यादिभिरु- पलक्षितं भवति । ( उपलक्षणे तृसोया ) वैगुण्यं -चित्तविकलता, मोहो-म. नोविभ्रमः, जडता भालस्यम् , भवारोचकशब्देन भक्तद्वेषाभक्तच्छन्दयोरपि संग्रहः । अन्यत्र तु पृथक्वेन लक्षणावगमः । तथाहि-'प्रक्षिसन्तु मुखे चान्न जन्तोर्न स्वदते मुहुः । अरोचकः स विज्ञेयो भक्तद्वेषमतः शृणु ॥ चिन्त- यित्वा तु मनसा दृष्ट्वा श्रुत्वाऽपि भोजनम् । द्वेषमायाति यो जन्तु- भैकवेषः स उच्यते। कुफ्तिस्य मयास्य अभिचारहतस्य च । यस्य नान्ने भवेच्छ्रद्धा सोऽमक्तच्छन्द उच्यते, इति ॥३॥