पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ सुधोपेते माधवनिदाने- लवरलोहितवर्णः । गाविकप्रपीडिताः कटिनपुरीषपीडिताः, सन्तः । तस्य रत्तरय, अतिप्रवृत्तितः अतितावात् । भेकामा मण्डूकच्छविः, पीत- वर्ण इति यावत् । विट्=पुरीष, श्या=कृष्णवर्णम् , अधोवायुः अपानशम्दो न वर्त्तते गुदेन, प्रतिलोमगत्वात् ।। २६-२९ ।। वातादिभेदेन तनु चारुणवर्ण च फेनिलं चासगसाम् । तल्लक्षणानि-कटयूरगुदशूलं च दौर्बल्यं यदि चाधिकम् ॥ ३० ॥ तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम् । शिथिलं श्वेतपीतं च स्निग्धं विड्गुरुशीतलम् ॥ ३१॥ यद्यर्शसां धनं चासक तन्तुमत्पाण्डु पिच्छिलम् । गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम् ॥ श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः ॥ ३२ ॥ रक्तस्य वातादिभेदेन लक्षणमाह-तन्वित्यादि । यदि, अर्शसाम् , असा रक्त, तनु - तरलम्, अरुणवर्ण-रक्तवर्णं, फेनिलं-फेनयुक्त, च स्यात्कटया- दिषु शूलमधिक दौर्बल्यं च यदा जायेत, रूक्षणं हेतुर्यदि भवेत्तदा तत्र बातस्यानुबयो वियः। यदि च विट-पुरीष, शिथिलं-द्रवं, श्वेतपीत स्निग्ध, गुरु, शीतलं च स्यात् , यदि चार्शसाम्, असक्रक्त, तन्तुमत्- सूत्रवद्भासमान, पाण्डुपीतवणं, पिच्छिलादिलक्षणोपेतं च स्यात्तत्र श्लेष्मा. नुबन्धो विशेयो बुधैः ।। ३०-३२ ॥ कथमीसि पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम् । कष्टानि–सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ॥ ३३ ॥ तस्मादर्शोसि दुःखानि बहुव्याधिकराणि च । सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ॥ ३४ ॥ गुददेशस्थस्यापि तस्य सर्वदेहव्यापित्वमाह-गुदजानाम्-अर्शसां, समु- भवे पश्चात्मा मारुतः पञ्चविधवातः, पित्तं च पञ्चविधं, कफल पञ्चविधः, गुदबलित्रयं च सर्व एव युगपत् , प्रकुप्यन्ति विकृता यान्ति. तस्मादर्शोसि, दुःखानि पीडाकराणि बहुव्याधि जनयन्ति, सर्वदेहोपतापीनि-निखिल- शरीरक्लेशकराणि, प्रायः, कृच्छतमानि-कष्टसाध्यानि, प्रायोग्रहणाद् असा- ध्यानि च भवन्ति । 'हदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशे -

. 7