पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ सुधोपेते माधवनिदाने- दाहादिज्वरः-करोत्यादौ तथा पित्तं त्वक्स्थं वाहमतीव च । तस्मिन्प्रशान्ते वितरौ कुरुतः शीतमन्ततः ॥ १६ ॥ तयोः परिणामः-द्वावेतौ शीतदाहादिज्वरौ संसर्गजौ स्मृतौ। दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः ॥ १७ ॥ एतौ द्वौ शीतदाहादिज्वरौ संसर्गजौ भणिती, तत्र दाहपूर्वः कष्टः शीतपूर्व- कश्च कष्टतमोऽत्यर्थं दुःस्साध्य इत्यर्थः ॥ ५७ ॥ रसगतज्वरः-गुरुता हृदयोत्क्लेशः सदन छZरोचको रसस्थे तु ज्वरे लिङ्ग दैन्यं चास्योपजायते ॥ १८॥ अथ रसादिधातुगतज्वरमाह-गुरुतेत्यादि । रसस्थे रसधातुस्थे, ज्वरे ॥१८॥ रक्तगतज्वर:-रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ। प्रलापः पिडका सृष्णा रक्तप्राप्ते ज्वरे नृणाम् ॥ १९ ॥ मांसगतज्वर:-पिण्डिकोद्वेष्टन तृष्णा सृष्टमूत्रपुरीषता। उष्माऽन्तर्दाहविभेपौ ग्लानिः स्यान्मांसगेत ज्वरे ॥६॥ पिण्डिकोद्वेष्टन =जान्वधोजङ्घामांसपिण्डस्य लगुडादिना पीडनेनेव पीडा। विक्षेपः हस्तपादादीनां चालनम् ॥ ६० ।। मेदोगतज्वरः-भृशं स्वेदस्तृषा मूर्छा प्रलापछदिरेव च । दौर्गन्ध्यारोचको ग्लानिमेंदःस्थे चासहिष्णुता ॥ ६१॥ अस्थिगतज्वरः--भेदोऽस्थ्नां कूजनं चासो विरेकश्छदि रेव च । विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ॥ ६ ॥ अस्थ्नां भेदाभेद इव भेदः, भङ्गवत् पीडेत्यर्थः ।। ६२ ॥ मज्जगतज्वरः--तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा। अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे ॥ ६ ॥ तमःप्रवेशनं तिमिराविष्टस्येव शानशून्यता। मर्मच्छेदा-हृदयस्य च्छेद- इव पीडा ।। ६३ ।। शुक्रगतज्वरः-मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे । शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ॥ ६४ ॥ शेफसः जननेन्द्रियस्य,स्तब्धता चेतनत्वं,शुक्रस्य मोक्षा-वीयंपातः६४ तत्साध्याऽसा-रसरक्ताश्रितः साध्यो मांसमेदोगतश्च यः । ध्यभेदाः-अस्थिमज्जगतः कृष्छः शुक्रस्थस्तु न सिध्यति॥ ६ ॥