पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . ज्वरनिदानम् ॥ प्राकृतवैकृतौ वर्षाशरवसन्तेषु वाताचैः प्राकृतः क्रमात्। वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोनवः॥६६॥ कालभेदेन ज्वरस्यासाध्यत्वादिकमाह-वर्षेत्यादि । वर्षासु वातिको ज्वरः, शरदि पैत्तिकः, वसन्ते श्लैष्मिकः प्राकृतः स सुखसाध्यः। अन्योऽस्माद् , यथा वर्षासु पैत्तिक इत्यादि । सवैकृतोदुःसाध्यः प्राकृतोऽपि वातोद्भवो दुःसाध्यएवा६६॥ दोषाणां प्राकृतज्व-वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् । रकर्तृता- कुर्यात्पित्तं च शरदि तस्य चानुबलः कफः ॥ तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् । कफो वसन्ते तमपि वातपित्तं भवेदनु ॥ ६ ॥ प्राकृतज्वराणां चिकित्साप्रणयनार्थमुत्पत्तिक्रममाह-वर्षास्विति। वर्षांसु दुष्टः - कुपितः, पित्तश्लेष्मान्वितः पित्तकफानुवन्धः, मारुतः पवनः, ज्वर कुर्यात् । शरदि दुष्टश्च पित्तं ज्वरं कुर्यात् , तस्य=पित्तस्य, अनुबलः कफो भव. ति । अनुबलमिवेत्यनुबलम् । तत्प्रकृत्या = तयोः पित्तकफज्वरयोः, प्रकृत्या लङधनसाध्यस्वभावेन, विसर्गाच-समयस्य विसर्गाख्यभावात् , अनशना- त्लङ्घनात् , भयं न भवति, ज्वरस्यामाशयोत्पन्नत्वादिति के चित्। के चि- तु-तच्छब्देन वातपित्तज्वरौ परामृशन्ति । तथा च तयोः प्रकृतिस्तत्प्रकृतिस्तया तत्प्रकृत्या वातपित्तज्वरनिसर्गेण, तत्र प्राकृते ज्वरे अनशनाद् भयं न भवतीति । शिशिरवसन्तग्रीष्मा आदानसंज्ञकाः । वर्षाशरद्धेमन्ता विसर्गसंशकाः, तत्र आदानो हि सौम्यस्वभावः, विसर्गस्तु-आग्नेयस्वभाव इति विशेषः ॥ ६७ ॥ दोषप्रवृत्तिवृद्धी-काले यथास्वं सर्वेषां प्रवृत्ति द्धिरेव वा ॥६८॥ कालोऽपि दोषविशेषवोधक इत्याह-काल इत्यादि। यथास्वं काले- यस्य वातादिदोषस्य यः प्रकोपकालस्तत्र तज्जन्यज्वरस्य प्रवृत्तिर्बुद्धिर्वा भव- तीति भावः ॥ ६८॥ अनुपशयोपशयो-निदानोक्तानुपशयो विपरीतोपशायिता ॥ ६ ॥ अन्तर्वेगज्वरः-- अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः । सन्ध्यस्थिशूलमंस्वेदो दोषव!विनिग्रहः ॥ अन्तवेंगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत् ॥ ७० ॥ ज्वराणां मध्ये सम्प्राप्तिक्शात् कश्चिदन्तर्वेगः कश्चिच्च बहिर्वेगस्तयोर्लक्षणा- न्याह-अन्तर्दाह इत्यादिना । श्वसन-श्वासः,दोषव!विनिग्रहः दोषाणां वातादीना, वर्चसां-पुरीषाणाञ्च विनिग्रहः अप्रवृत्तिः ।। ७० ॥