सामग्री पर जाएँ

पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ज्वरनिदानम् । १३ कफज्वररूपं-स्तमित्यं स्तिमितो वेग आलस्यं मधुरास्यता । शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च ॥ १२ ॥ (स्रोतोरोधो रुगल्पत्वं प्रसेको लवणास्यता। नात्युष्णगात्रता छर्दिालास्रावोऽविपाकिता) ॥ गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्वता । प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ॥ १३ ॥ इलैष्मिकञ्चरमाह-स्तैमित्यमित्यादि । स्तमित्यं गात्राणामाईपटावगु- ण्ठितत्त्रमिव, स्तिमितो वेगः मन्दो वेगः,आलस्यं शक्येऽपि कर्तव्येऽनुत्सा- ह: “समर्थस्याप्यनुत्साहः कर्मण्यालस्यमुच्यते” इति । स्तम्भः = जाडयं- गावागां, तृप्तिः = अनन्नाभिलाषः, उत्क्लेदा उपस्थितवमनत्वमित्र, स्रोतो- रोधः-रसवाहिनां स्रोतसामवरोधः, प्रतिश्यायः नामास्रवणम, एतानि लक्ष- गणानि कफजे ज्वरे भवन्ति ।। १२-१३॥ वातपित्तज्वररूपं-कृष्णा मूर्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा। कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः ॥ पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः ॥ १४ ॥ वातपित्तज्वरमाह-तृष्णेत्यादि । तृष्णाऽऽया जृम्भाऽन्ता वातपित्तज्वरस्या- कृतिर्वेदितव्या । वमथुः छर्दिः, पर्वभेद: पर्वाणि भियन्त इवेतिसन्धिपोडोपल- ब्धिः। एतानि लिङ्गानि विकृतिविषमसमवायारब्धस्य वेद्यानि । द्वन्द्वजेषु सा- निपातिकेपु च कानि चिल क्षणानि प्रकृतिसमसमवायारब्धानि, कानि चिच्च प्रकृतिविषमसमवायारब्धानि भवन्ति । प्रकृत्या = हेतुभूतया, समः = कारणानु- रूपः, समवायः कार्यकारणभावसम्बन्धात्मकः, प्रकृतिसमसमवायः कारणानुरू- पं कार्यमिति यावत् । यथा शुक्लतन्तुसमवायात् पटस्य शुक्लत्वम् । विकृत्या-हेतु भूतया,विषमः कारणाननुरूपः,समवायो विकृतिविषमसमवायः, यथा हरि- द्राचूर्णसंयोगे रक्तत्वं, प्रकृते तु कफपित्तजे ज्वरे लिप्ततिक्तास्यत्वं प्रकृतिसमसम- वायारब्धम् । वातपित्तयोर्लक्षणेऽरुचिरोमहयौं विकृतिविषमसमवायारब्धौ ॥१४॥ नातकफज्वररूपं.-स्तैमित्यं पर्वणां भेदो निद्रागौरवमेव च ॥१५॥ शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्त्तनम् । संतापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ॥१६॥ वातश्लेष्मज्वरमाह-स्तमित्यमित्यादि । स्तमित्यम्-आर्द्रपटावच्छ-