पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ सुधोपेते माधवनिदाने- नत्वमिव, शिरोग्रहः = मस्तकं गृहीतमिव जानाति, स्वेदाप्रवर्त्तनं = स्वेद- स्य आ समन्ताद् भावेन प्रवर्त्तनमुत्पत्तिः। न तु स्वेदस्य-अप्रवर्त्तनमित्यर्थः । अन्यत्र हारीतादौ-शिरोग्रहः स्वेदभवश्च कासो ज्वरस्य लिङ्ग कफवातज- स्येति स्फुटदर्शनात् ॥ १५-१६ ॥ पित्तकफज्वररूपं-लिसतिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा । मुहुर्दाहो मुहुः शीतं पित्तश्लेष्मज्वराकृतिः ॥ १७ ॥ श्लेष्मपित्तज्वरमाह-लिप्सेत्यादि । लिसतिक्तास्यता= श्लेष्मणा लिप्त पित्तेन तिक्तञ्चास्य - मुग्वं यस्य तस्य भावो लिप्ततिक्तास्यता । तन्द्रा = निद्राव- तक्लान्तिः, तन्द्रालक्षणं यथा-"इन्द्रियार्थेष्वसंवित्तिर्गौरवं जम्भणं क्लमः । निद्राऽऽर्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् । इति ॥ १७ ॥ सन्निपात-क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा । ज्वररूपम्-सास्रावे कलुषे रक्त निर्भुग्ने चापि लोचने ॥१८॥ सस्वनौ सरुजौ कर्णी कण्टः शूकैरिवावृतः । तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भमः ॥ १९ ॥ परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम् । ष्टीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च ॥२०॥ शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा । स्वेदमूत्रपुरीषाणां चिरादर्शनमल्पशः ॥ २१ ॥ कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् । कोठानां श्यावरतानां मण्डलानां च दर्शनम् ॥ २२ ॥ मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च । चिरात्पाकश्च दोषाणां सन्निपातज्वराकृतिः ॥ २३ ॥ सन्निपातज्वरमाह-क्षणे दाह इत्यादि । “अस्थिसन्धिशिरोरुजा- अत्र रुजाशब्दस्यास्थ्यादिभिरन्वयाद् , अस्थिरजा-सन्धिरुजा-शिरोरुजेति वा- क्यार्थः । सास्रावे = अश्रुयुक्ते, कलुषे = अस्वच्छ, निर्गता भुग्नता = कुटिलता ययोस्ते निर्भुग्ने = विस्फारिते, लोचने = नेत्रे, सस्वनौ शब्दयुक्ती, सरुजी = वेदनावन्तौ, शूकैः = यवधान्याग्रजैः "टूण" इति लोके प्रसिद्धः। आवृ- तो- व्याप्तः, इव तन्द्रा-निद्रावत् क्लान्तिः। लक्षणं पूर्वत्र वर्णितम् । मोहः चेतनाऽभावः, प्रलापः = असम्बद्धभाषणं, जिह्वा रसज्ञा, खरस्पर्शा = कण्ट- काकीर्णा, सस्ताङ्गता-शिथिलगात्रत्वं, रक्तपित्तस्य कफेनोमिश्रितस्य