पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ......." उदरनिदानम् ३५ ॥ १६९ निरुध्यते तस्य गदे पुरीष निरति कृच्छादपि चापमल्पम् । हुन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति ॥ २१ ॥ बद्धगुदमाह-यस्यान्त्रमरित्यादि । उपलेपिभिः पिच्छिलेः, मन्त्रः, वालाश्मभिः = स्वल्पप्रस्थरखण्डैः, पिहितम् आच्छादित, विबद्धमिति या- वत् । बद्धगुदमिति गुदस्य बद्धत्वाददगुदम् ॥ २०-२१ ।। परिस्राव्युदरः चतोदरो वा- शल्यं तथाऽनोपहितं तदन्नं भुक्तं भिनत्यागतमन्यथा वा । तस्मात्तोऽन्त्रात्सलिलप्रकाशः स्नावः सवेरै गुदतस्तु भूयः ॥२२॥ नाभेरधश्वोदरमेति वृद्धि निस्तुयते दाल्यति चातिमात्रम् । एतत्परिखाव्युदरं प्रदिष्टम् ..... .."॥ २३॥ क्षतोदरमाह-शल्यमित्यादि। अन्नोपहितम् - अन्नसंयुक्तं, भुक्तम् , आ- गतं-पकाशयाद् विलोमेनागतम् , अन्यथा वा-जृम्भणात्यशनाभ्यां वा । सलिलप्रकाश:-जलोपमः । दाल्यति-विदीयते ।। २२-२३ ॥ जलोदर: "दकोदर कीर्तयतो निबोध ॥ यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः । पिवेजलं शीतलमाशु तस्य स्त्रोतांसि दुष्यन्ति हि तहानि ॥२४॥ स्नेहोपलिप्तेष्वथवाऽपि तेषु दकोदर पूर्ववदभ्युपैति । स्निग्धं महत्तत्परिवृत्तनाभि समाततं पूर्णमिवाम्बुना च । यथा हतिः क्षुभ्यति कम्पते च शब्दायते चापि कोदरं तता२॥ दकोदरमाह-या स्नेहपीतेल्यादि । स्नेहपीत-घृतादिद्रव्यं पीतवान्, मनुष्यः, अनुवासितः- कृतानुवासनबस्तिकः, निरूठः- कृतकषायबस्तिका, तवहानि उदकवहानि, स्रोतांसि दूष्यन्ति । यथा दृतिः अस्तिश्चर्मपुटको वा, क्षुभ्यति-अन्तर्जलचलमिव धत्ते कम्पते च शब्दायते-गुडगुडायते वा॥२४-२५॥ कष्टसाध्यता-जन्मनैवोदर सर्व प्रायः कृच्छ्रतम मतम् । बलिनस्तदजाताम्बु यत्नसायं नवोत्थितम् ॥२६॥ अनातोदकस्योदरस्य लक्षणम्- (अशोथमहणाभासं सशब्द मातिमास्किम् ॥ सदा गुडगुडायन्तं सिराजालगवाक्षितम् ॥१॥ नामि विष्टम्य पायौ तुपेगं कृत्वा प्रणश्यति । हजाणकटीनाभिगुवप्रत्येकशूलिनः ॥२॥