पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ सुधोपेते माधवनिदाने- नाह-वसेत्यादि । वसा-मासस्नेहा, सामिश्र-वसासंयुक्तं, वसाऽऽभं - वसासदृशम् ॥१५॥ मज्जामेह:-मज्जाऽऽभ मज्जमिभं वा मज्जमेही मुहुर्मुहुः । क्षौद्रमेहौ-कषायं मधुरं रूझ क्षौद्रमेहं वदे बुधः ॥ १६ ॥ हस्तिमेहः-हस्ती मत्त हवाजलं मूत्र वेगविवर्जितम् । सलसीकं विबद्धं च हस्तिमेही प्रमेहति ॥१७॥ हस्तिमेही, मत्त:- मदान्धः, हस्ती-गजः, इव, अजन-निरन्तरं, वेगविवर्जितं - वेगशन्य, सलसीक लसीकया समेतं, विबद्धं-पिण्डीभूतम्, इव प्रमेहति ॥ १७॥ कफमेहोपद्रवा:-अविपाकोऽरुचिपछर्दिनिंद्रा कासः सपीनसः । उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् ॥१८॥ कफजादिमेहानामुपद्रवानाह-अविपाक इत्यादिना । मविपाकोऽत्रा- नाम् । सपीनस:-प्रतिश्याययुक्तः ॥ १८॥ पित्तमेहोप-बस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः । द्रवाः-दाहतृष्णाऽम्लिका मूर्छा विभेदः पित्तजन्मनाम् ॥१९॥ बस्तिमेहनयोः- मूत्राशयशिश्नयोः। अम्लिका- अम्लोद्गारः। विड्- भेदः पुरीषप्रवृत्तिः ॥ १९॥ वातमेहो-धातजानामुदावर्स: कम्प-हृदूग्रह-लोलताः । पद्रवाः-शूलमुन्निद्रता शोषः कासः श्वासश्च जायते ॥२०॥ लोलता-सर्वरसाशिता ॥ २०॥ असाध्यरूप-यथोक्तोपवाविष्टमतिप्रस्नु तमेव च । पिडकापीडितं गाठः प्रमेहो हन्ति मानवम् ॥२१॥ मधमेहिनो वीर्येण जातस्यासाध्यता- जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि वीजदोषात् ॥२२॥ असाध्यत्वमाह-जात इत्यादि । जातः प्रमेही जन्मनैव यः प्रमेही, मधुमेहिनो वा जातः उत्पन्नः, हि यो बीजदोषात शरीरारम्भकपितृशुकदो- षात् स न साध्यः ॥ २२ ॥ सर्वेऽपि कुलजा रोगा मसाध्या भवन्ति- ये चापि के चित्कुलजा विकारा भवन्ति तांस्तान्प्रवदन्स्पसाध्यान्॥२३॥