पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ . सुधोपेते माधवनिदाने- कारणं हेतुः । "हेतुर्ना कारणं बीजमिति कोषः। स्वर्गापवर्गयोर्द्वारं- स्वर्गः==सुखम्, अपवर्ग: आत्यन्तिकदुःखनिवृत्तिः, तयोर्द्वारं = प्रधानकारणम् , त्रैलोक्यशरणं-"त्रैलोक्यमि"ति स्वार्थे ष्यञ् चातुर्वर्ण्यवत्। त्रैलोक्यस्य भुव. नत्रयवर्त्तिस्थावरजङ्गमात्मकसमूहस्य, शरणं=रक्षकम्, “शरणं गृहरक्षित्रोरि" ति कोषः। शिवं-महेश्वरम्, महादेवस्य नामबाहुल्येऽपि हरादिपर्यायान् परिहृत्य शिवपदनिर्देशेन ग्रन्थाध्यापकानां मध्ये नॄणां च कल्याणमभिलष्यति ग्रन्थका- रः। शिवशब्दो हि कल्याणवचनः, “श्वः श्रेयसं शिवं भद्रमिति कोषात्॥१॥ नानामुनीनां वचन(नै)रिदानीं समासतः सद्भिषजां नियोगात्। सोपद्रवारिष्ट-निदान-लिङ्गां निबद्ध्यते रोगविनिश्चयोऽयम् ॥२॥ अभिधयादिचतुष्टयोपादानाय श्लोकद्वयमाह.--नानेत्यादि । नानामुनी- नाम् = अनेकेषां महर्षीणाम् , वचनैः == वाक्यैः, इदानीं = सम्प्रति, समासतः= संक्षेपतः, सन्तश्च ते भिषजः सद्भिषजस्तेषां तथोक्तानां = सद्वैद्यानां नि- योगात् “अस्मादुपकाराय ग्रन्थः क्रियतामि"त्येवं विधप्रार्थनाकरणात्, अथवा-- आज्ञायाः, एतेनार्थेन ग्रन्थकारस्य विनयत्वं स्फुटीभवति । सोपद्रवारिष्टनिदान लिङ्ग: उपद्रवश्चारिष्टञ्च, निदानञ्च, लिङ्गञ्च, उपद्रवारिष्टनिदानलिङ्गानि तैः सह वर्तमानः सोपद्रवारिष्टनिदानालिङ्गः । तत्रोपद्रवो हि रोगारम्भकदोषप्रकोपजन्योऽ- न्यविकारः,तदुक्तं पतञ्जलिना चरके-"व्याधेरुपरि यो व्याधिर्भवत्युत्तरका- लजः। उपक्रमाविरोधी च स उपद्रव उच्यते” इति । नियतमरणख्यापकं- लिङ्गमरिष्टम् । रागोत्पादको हेतुर्निदानं, रोगख्यापको हेतुर्लिङ्गम् , लिङ्ग्यन्ते ज्ञाप्यन्ते व्याधयो येनेति विग्रहात् पूर्वरूपादीनामपि संग्रहो भवति । रोगविनि- -श्चयः रोगाणां = व्याधीनां विनिश्चयो = विशेषेण वातजत्वादिसाध्यासाध्यत्वादि- रूपेण विज्ञानं येन स तथाभूतोऽयं ग्रन्थो निबध्यते-संगृह्यते । अस्माभिरिति शेषः। सोपद्रवेत्यादिविशेषणोपन्यासाद् ग्रन्थस्य वाच्यवाचकभावलक्षणः सम्ब- न्धो बोद्ध्यत इति ॥ २ ॥ प्रयोजनम्-नानातन्त्रविहीनानां भिषजामल्पमेधसाम् । सुखं विज्ञातुमातङ्कमयमेव भविष्यति ॥३॥ नानातन्त्रेति । नानातन्त्रविहीनानाम् अनेकतन्त्रशून्यानाम् , अ- ल्पा-स्वल्पा, मेधा धारणावती धीर्येषां तेषां तथोक्तानामल्पबुद्धीनां, भिषजां= वैद्यानाम्, सुखम् अनायासेन यथा स्यात् तथा, आतङ्कं रोगं, विज्ञातुं= विशेषेणावगन्तुम्, अयम् ग्रन्थः, भविष्यति । कारणमिति शेषः । अत्र रोग-