पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीहरिः शरणम् । सुधाऽभिधया विशदटिप्पण्याऽलङ्कृतं- श्रीमाधवकर-विरचितम्- →*माधवनिदानम् - तत्रादौ पञ्चलक्षणनिदानम् । ग्रन्थकर्त्तुर्मङ्गलाचरणम्- प्रणम्य जगदुत्पत्ति-स्थिति-संहार-कारणम् । स्वर्गाऽपवर्गयोर्द्वारं त्रैलोक्यशरणं शिवम् ॥१॥ टिप्पणीकर्त्तुर्मङ्गलाचरणम्- नत्वा गुरुपदद्वन्द्वं ध्यात्वा पितृपदाम्बुजम् । माधवोक्तनिदानस्य टिप्पणिर्लिख्यते मया ॥ सत्स्वप्यनेकेषु हेत्वादितत्त्वप्रतिपादकेषु ग्रन्थेषु प्रतिपित्सूनां प्रतिपत्तिसौक- र्याय ग्रन्थमारभमाणो 'ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते च समाप्तिकामो म- ङ्गलमाचरेदिति श्रुत्या ग्रन्थारम्भे प्रारब्धग्रन्थपरिसमाप्त्यर्थं श्रोतॄणां विघ्नव्यूह- निरासार्थञ्च ग्रन्थकारो माधवकरः स्वाचारपरम्परापरिप्राप्तस्वेष्टदेवताप्रणामरूपं. मङ्गलं निबध्नाति-प्रणम्येति । युग्ममेतत् । मया रोगविनिश्चयो ग्रन्थो- निबद्ध्यत इत्युत्तरग्रन्थेन सम्बन्धः । प्रशब्दोऽत्रात्युत्कृष्टभक्तिप्रकाशकः । जग. दुत्पत्तिस्थितिसंहारकारणम्-उत्पत्तिश्च स्थितिश्च संहारश्च ते उत्पत्तिस्थिति- संहाराः, जगत उत्पत्तिस्थितिसंहारा जगदुत्पत्तिस्थितिसंहाराः, तेषु कारणं जग- दुत्पत्तिस्थितिसंहारकारणम् । जगच्छब्देन पृथिव्यादयो गृह्यन्ते। उत्पत्तिः स्व- कारणसमवायः, स्थितिः कतिचित् कालपर्यन्तावस्थितिः । संहारो-विनाशः।