पृष्ठम्:महासिद्धान्तः.djvu/252

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o सतिलके महासिद्धान्ते कल्पकुदिनभक्ताद्यच्छेषं तदायात् धनराशेः शोध्यम् अत्रोपपत्तिः ‘उद्देशकालापवदेव कार्य योगान्तराद्य ग्रहपर्ययाणाम्' इत्यादिना ।

  • कहैश्च तक्ष्यं कुदिनाधिकं चेत्? इत्यादिना च भास्करमहाप्रश्नाधिकारोक्तया स्फुटा ॥ ३ ॥

इदानी तौत्रव विशेषमाह । अल्पायात्सकुदिवसादेवं कार्योऽत्र सोऽपि विधिः । शेषादुत्पन्नग्रहभगणै रहितादृणाख्यभगणाः स्युः ॥ ४ ॥ अल्पायात्। धनराशिर्यदि ऋणराशेरल्पस्तदा तस्मात् कल्पकुदिनसहितात् पूर्वोक्तविधानेन सेोऽपि विधिः कार्यो गणकेनेति शेषः । शेषादुत्पन्नग्रहभगगैः प्रओक्तनिईिष्टग्रहभगगै रहितात् ऋणाख्यभगणाः शोधनग्रहस्य भगणाः स्युः । अत्रेोपपत्तिः । भास्करमहाप्रश्नेोक्तप्रकारेण पूर्वोदितेन स्फुटा ॥४॥ इदानी पुनस्तत्रैव विशेषमाह । उत्पन्नग्रहभगणाः शेषविहीना धनाख्याः स्युः । इष्टद्युगणोऽथ खगैग्रेहादिकैः स्यात्मतीतिरिह॥ ५ ॥ यदि उत्पन्नग्रहभगणाः शेषाविहीनाः शेषग्रहभगणेहींना। स्तदा धनाख्या भगणाः स्युः । न पूर्वोक्ता ऋणभगणा इत्यर्थः । अथ गृहादिकैः खगैर्ग्रहैरत्र द्युगणोऽहर्गणः साध्यस्तस्मादालापेो घटते एवमिह प्रतीतिर्विश्वासः पूर्वोदितप्रकारस्य स्यात् ॥ ९ ॥ इदानी कृष्टकसम्बन्धि प्रश्रोत्तरमाह । कुट्टकविषयाः प्रश्नाः कुट्टकसूत्रैश्च सिध्यन्ति । तन्मध्यस्थाः खेटास्तद्दिननिचयानुपातेन ।। ६ ॥ तन्मध्यस्थाः खेटास्तत्र प्रक्षे सर्वे मध्यमा ग्रहाः । तद्दिनानिचयानुपातेन तद्देवसोद्भवाहर्गणानुपातेन कल्पकुदिनैः कल्पग्रहभगणास्तदाहर्गणेन किम् ।। इति त्रैराशिकेनेत्यथैः शेषं स्पष्टम् ॥ ६ ॥