पृष्ठम्:महासिद्धान्तः.djvu/200

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

rww सतिलके महोसिद्धान्ते इंदानों भागहरे करणसूत्र वृतम्। *भाज्यस्याधो हारं निधाय भाज्यात् त्यजेदभीष्टगुणम् । हारममीटं लब्धं शेषं विभजेद्धरं समुत्सायें ॥ ४ ॥ ' भाज्यस्याधो हारं निधाय स्थापयित्वा ततो भाज्यादमीटगुर्ण हारं त्यजेत् शोधयेद्गणक इतिशेषः । येनाभीष्टेन गुर्णं तदेवाभीष्टं लब्धम् । हरं समुत्सार्ये शेषं पुनस्तथैव भजेत् । ‘भाज्याद्धरः शुध्यति यद्गुणः स्यात? इत्यादिभास्करोतिमेतदनुरूपमेव ॥ ४ ॥ इदानी भागहरे विशेषमाह । गुणहारौं गुण्यहरौ +भाज्यच्छेदेन केनापि । विभजेत् तल्लुब्धाभ्यामविकृतजसमं फलं भवति ॥ ५ ॥ गुणहारौ वा गुण्यहरौ भाज्यहरावेव । तौ आज्यच्छेदेन भाज्यापवर्ताङ्कन विभजेत् । तल्लब्धाभ्यां भाज्यहाराभ्यां पूर्ववदावकृतजसम मनपवर्तिम्यां भाज्यहराभ्यां यस्फर्ल तत्सममेवफलं भवति । ‘ समन केनाप्यपवत्त्र्यं ? इति भास्करोत्तमेतदनुरूपमेव ।। * तुल्येन सम्भवे सति? इति श्रीधराचार्योक्तं च तथैव ॥ ९ ॥ इदानी वर्गघनयोर्टक्षणमाह । खगुणोऽङ्केोवर्गः स्याद्वर्गोमूलाहतो घनोभवति । स्वेनमुणोऽङ्केोवर्गः स्यात् । वर्गोवर्गाङ्कः स्वेनमूलेनं हतेो वनो भवति । समद्विघातोवर्गः समत्रिघातश्च घन इत्यर्थः ।। * समईिघातः कृतिः ? इत्यादि * समत्रिघातश्च घनः ' इत्यादि चं भास्करोत्तमेतदनुरूपमेव । 'सदृशद्विराशिघात' इत्यादि 'घनोऽसौ समत्रिराशिहतिः? इति च श्रीधराचार्योत्तमपि तथैव । e भाज्यान्त्वाधा इति वि. पुस्तके पाठ: । ----س , 1 गुणकहरी इति वि. पुस्तके पाठ: । +भाज्यच्छेदी च केनापि इति वि. पुस्तके पाठ: ।