पृष्ठम्:महासिद्धान्तः.djvu/182

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ सतिलके महासिद्धान्ते । अतोऽत्रोपपत्त्या ‘गनधैः? । इत्यत्र ‘गलथैः? इति साधुपाठी विभातीति सर्वमुपपन्नं भवति। धनर्णवासना भास्करप्रकारेण स्फुटा ॥२-३॥ इदानी पातमध्याख्यात् क्रान्तिसाम्यस्य गतागतत्वप्रतिपादनार्थमाह । स्पष्टे क्रान्ती साध्ये रव्यपमादैन्दवोऽल्प ओोजस्थः । समजोऽपमोऽधिको वा गम्यः पातस्तदाऽन्यथा यातः ॥४॥ पातमध्याख्यसमये रावचन्द्रयोः स्पष्टे क्रान्ती साध्ये । अथ रव्यपमादोजपदस्थ ऐन्दवश्धन्द्रापमधेदल्पः समपदजोऽपमेो वाऽधिकस्तदः । पातमध्याख्यात् समयात् पातो गम्यो क्षेयः । अस्माल्लक्षणाद्यद्यन्यथा तदा याती वाच्य इति । अत्रोपपत्तिः । “ओनपदेन्दुक्रान्तिर्महती सूर्यापमात्' इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥ ४ ॥ ـــــ अथ तस्मात् कालाद्रतगम्यस्य क्रान्तिसाम्यकालस्य परिज्ञानमाह ! . तत्क्रान्त्योर्भिन्नदिशोरैक्यं तुल्याशयोर्विवरमाद्यः । व्यतिपतेऽथ व्यस्तो ज्ञेयोऽसौ वैधृते पाते ॥५॥ लक्षणवद्यातैष्येष्ट्रघटीभिरिनामृतांशुशशिपातान् । सश्वाल्यादी साध्य प्राग्वत् स्याङ्दुतरस्ताभ्याम् ॥३॥ आद्योत्तरयेस्तुल्ये चिद्दे भेदाद्धिरोन्यथा योगात् । अाद्यप्रागिष्टघटोघातं तेनोद्धरेत् फलघटाभेः ॥७॥ मध्यमकालादाद्यवदेष्यगतो मध्यमः पातः । काथेतावदस्मात् साध्यो ह्युत्तर अाद्यस्त्विहाद्यश्च ॥८॥ असकृचाद्योत्तरयोः समानचिहे यदाद्य ऊनस्तत् । व्यस्तं यातैष्यत्वं ज्ञेयं मध्यं सदोत्तरा भावे ॥९॥ अल्पोऽप्युत्तरसंज्ञोऽसकृद्विधानादापे भवाति स ऊनः । यदि मानखण्डयोगात् तास्मन् साति संभवेत् पातः ॥१०॥