पृष्ठम्:महासिद्धान्तः.djvu/183

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाताधिकारः । १२७ व्यतिपाते भिन्नदिशेोस्तयो रविचन्द्रयोः क्रान्त्येोरैक्र्यं तुल्याशष्योस्तुल्यदिशोध विवरमन्तरमाद्यो भवति । . वैधृते पातेसावाद्यो । व्यस्तो भवति । भिन्नदिशोः क्रान्त्योरन्तरमेकदिशेोश्च योगस्तदाऽऽद्यो भवति इत्यर्थः । अष्थ लक्षणवत् पाते गते यातेष्टघटभिगैम्ये च गन्येष्टधटीभी रविचन्द्रपातान् सञ्चाल्य प्रथर्म तयोरपमै साध्यौ । ताभ्यामपमाभ्यां तत्क्रान्त्योरेकादशोरित्यादिना चोत्तर उत्तरसंज्ञः स्यात् । तुल्ये चिहे आद्येोत्तराभ्यां गते वा गम्ये पाते सति आद्योत्तरयेोभंदीऽन्तरं हरो हराख्यः स्यात् । अन्यथा अद्यान गतगम्ये उत्तरेण च गम्यगीते सतेि पाते तयेोराद्येोत्तरयोर्योगाद्धरो भवति । अथाऽऽद्येष्टघटघातं तेन पूर्वसाधितेन हरेण उद्धरेद् विभजेद्गणक इति शेषः । फलघटीभिराद्यवत् अद्येन गत पाते मध्यमकालान्मध्यमः पातो गतः । एष्यलक्षणे च फलघटिकाभिर्मध्यमकालान्मध्यमः पात एष्य इति । अस्मात् पूर्वसाधितमध्यमपातकालात् कथितवत् पूर्वोक्तप्रकारेण पुनरुक्तरसंज्ञः साध्यः । इहात्राद्यसंज्ञस्तु अद्यः प्रथम एव साधितः सदा स्थिरो ज्ञेयः । एवमाद्यातरये: समानचिड़े असकृत् कर्म कार्यर्म । अथ मध्यमकालाद्वतगप्प्येष्टघटचालनेन यद्युत्तरसंज्ञादाद्य ऊनस्तदा गतै.. ष्यत्वं व्यस्तम् । अाद्यलक्षणन गम्यस्तदोत्तरलक्षणेन गतः । एवमाद्यलक्षणेन गतस्तदोत्तरलक्षणेन गम्य इत्यर्थः । उत्तराभावे उत्तरसंज्ञस्या। भाव काले सदा मध्यं ज्ञेयम्। स्फुटमध्याख्यं पातस्य मध्यकाल इत्यर्थः । । असकृद्विधानादसकृत्कर्मणा उत्तरसंज्ञ उत्तरोत्तरमल्पो भवति परन्तु स चेच्छून्यमितो न भवेत् किन्तूनः सन् मानैक्यखण्डाद्ययूनो भवेत् तदग्रे पृष्ठे वा चालनेनाधिक एव तदा तस्मिन्नेवोत्तरसंज्ञे सति पातः · पातमध्यः संभवेदिति । अत्रोपपत्तिः । ‘तत्क्रान्त्योरेकदिशेोरन्तरौमैक्यं विभिन्नदिशोः° इत्यादिना ‘स्वायनसन्धाविन्दोः क्रान्तस्तत्कालभास्करक्रान्तेः? इत्यादिना च भास्करविधिना स्फुटयः ॥९-१०॥