पृष्ठम्:महासिद्धान्तः.djvu/166

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अप्रथ ग्रहच्छायाधिकारः ॥ । तत्रादैौ नित्योदयास्तसाधनं प्रवक्ष्यामीत्याह । दिनकरवशेन कथितावुदयास्तौ सांमतं मवक्ष्यामे । । प्रतिदिनमनिलवशेन व्योमगकुम्भोद्भवेोडूनाम् ॥ १ ॥ पूर्वं दिनकरवशेन सूर्यसान्निध्यवशेन ग्रहाणामुदयास्तैौ कथितौ । सांप्रतमिदानीमानलवशेन प्रवहवायुक्शेन ग्रहगस्त्यनक्षत्राणां प्रतिदिनं यावुदयास्तौ तावहं प्रवक्ष्यामि वच्मीत्यर्थः।। *निरुक्तौ ग्रहस्येति नित्योदयास्तौ' इत्यादिभास्करोतं वैपरीत्येनैतदनुरूपमेव ॥ १ ॥ इदानी रविग्रहोदययोरन्तरकालमाह । " रविभोग्यः खगभुक्ते क्षेप्यो मध्योदयैः सहितः । मध्यमकालस्तजं खचरं कुर्यात कलम्बं च ॥ २ ॥ इष्टसमये रविर्ग्रहश्च स्फुटः कार्येः । ततो रवेर्भोग्यकालो ग्रहस्य भुक्ते भुक्तकाले क्षेप्यो योज्यः । तत्र मध्योदयैः तदन्तर्वर्त्तिदृकाणोदयैश्च युक्तो रविग्रहान्तरे मध्यमकालः स्थूलुक्लाडो भवति। तज्जे तात्कालिक ग्रहं कलम्बं तस्य ग्रहस्य शरं च कुयोद्भणक इति शेषः । , अत्रोपपतिः। अत्र रवी रविरेव 1 ग्रहश्ध लग्नं प्रकल्प्य लग्नानयनविपरीतक्रियया तदन्तर्वर्ती काल आनीतः सूर्योदयादनन्तरं तावता कालेन ग्रहोदयो न भवति यतो यदा ग्रहस्थार्न प्राकृक्षितिजे समायाति तदा ग्रहविम्बं शरवशेन क्षितिजादधी वोध्र्व भवत्यतः पूर्वागतकालो न तदुदयान्तर्वतों कालः। अत एवार्य कालो मध्यकाल इति कथनं युक्तियुक्तमिति ।। सूक्ष्मकालज्ञानार्थ तत्काले खचरस्तच्छरश्च कृत इति ॥२॥ इदानी सूक्ष्मकालज्ञानार्थमसकृत्कर्मीह । तस्मिन् पूर्वदिगुत्तैः कुर्याद् दृकर्मणी ततः कालः । कार्येस्तज्जो द्युचरः कृतदृष्टिफलोऽसकृदुदयविलग्रम् ॥३॥