पृष्ठम्:महार्थमञ्जरी.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
महार्थमञ्जरी

विवक्षा । एवं च प्रमाता प्रमाणं पञ्चविघं प्रमेय पीठनिकेतनम् इत्यर्थो भवति । अन्ये पुनरेतत्पी ठक्षेत्रश्मशानक्षेत्रेशमेलापयजनभेदात् पञ्चप्रकार तया उपासते, पञ्चैव पञ्चवाहपदव्यां वाहाः पर मेश्वरस्य स्फुरणधाराः, ताश्च पञ्च,-व्योमवामे श्वरी खेचरी दिक्चरी गोचरी भूचरीति भवन्ति । तत्र व्योम्नाम् ओमात्मकप्रणवरूपताविमर्शवैशि


२९ ...."पर्यालोचनात्मकं शाकं पर्व तत्प्राप्तिं प्रति ईश्वरी सामर्थ्यशालिनीति व्योमव्योमेश्वरी स्वातन्त्र्यापरपर्याया मायाशक्तिरिति उच्यते । तदुक्तम्

'प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे
ततस्तत्त्वे चाष्टध्वनिवपुरुपाधिन्युपरते।
श्रिते शाक्त पर्वण्यनुकलितचिन्मात्रगहनां
स्वसंवित्ति योगी रसयति शिवाख्यां परतनुम् ॥

इति । तथा

'स्वातन्त्र्यापरपर्यायमायाजाड्यविलोपनात् ।
विलीय चिदसीभूतं विधामन्दमुपास्महे ॥'

इति । सैव च परिणामिनी पुरुषस्य भोक्तृत्वमापादयन्ती तद्भोगार्थमेव प्रकृतिरिति उच्यते, न तु प्रकृतेर्निजं प्रयोजनमस्तीति । तदुक्तं पातञ्जले

'तदर्थ एव दृश्यस्यात्मा'

श्यस्य प्रकृतेस्तदर्थं पुरुषभोगार्थमेवेति ।