पृष्ठम्:महार्थमञ्जरी.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
श्रीमन्महेश्वरानन्दविरचिता

ष्टयानुप्राणनानां वक्ष्यमाणपञ्चपर्वकाणां वामधा मानं प्रति ईश्वरी सामर्थ्यशालिनीति व्योमवामे श्वरी, सा च- परमेश्वरस्य अविकल्प्यभूम्यनुप्र विष्टा चिच्छक्तिश्च बोधरूपे प्रमातरि स्फुरन्ती, तदनु तदन्तःकरणानुप्रविष्टा पश्चात् तस्यैव बाह्ये न्द्रियानुबन्धिनी भूत्वा बहिर्वेद्यलक्षणं विषयोल्ला सम् अखिलम् उपयुक्ते इति, खे चरणात् खेचरी, दिक्षु अन्तःकरणेषु चरति इति दिक्चरी, गोषु बहिरिन्द्रियेषु संचरणात् गोचरी, भूमिरूपविष यौचित्याचरणात् भूचरीति । अथैवं पञ्चंधा वहतः परमेश्वरस्य प्रमातृप्रमाणप्रमेयतया त्रैविध्येनाऽपि प्रकार सूचयन् मूर्तिचक्रं तावदाह 'सप्तदश भाल नेत्र' इति, -भालो ललाटः तद्गतनेत्रे सप्तदश शक्तयः, तच्च मूर्तिचक्रम्' इत्याम्नायते-मूर्छ नात् मोहनरूपात् समुच्छ्रयणरूपाद्वा मूर्तिचक्रं,


३० मूर्तिचक्रमिति भोग्यरूपायाः प्रकृतेर्भोक्तृरूप आत्मेति उच्यते, अस्यैव च प्रमाता आत्मा भोक्ता शिव इति पर्यायाः । तदुक्तम् 'प्रकाशानन्दाभ्यामविदितचरीं मध्यपदवीं प्रविश्यैतद्द्वन्द्वं रविशशिसमाख्यं कवलयन् ।