पृष्ठम्:महार्थमञ्जरी.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
महार्थमञ्जरी

सो तंथ सन्तणिंजो
 विमरिसपुष्पाहिवाससुरहीति।
चिन्तचसकाअपहिंज
 सुहावीरपाणवंथूहि ॥ ३५॥

स तत्रार्चनीयो
 विमर्शपुष्पाधिवाससुरभिभिः।
चित्तचषकार्पितै-
 र्वैद्यसुधावीरपानवस्तुभिः॥३५॥

 स वेदागमप्रसिद्धस्वभावः परमेश्वरः, तत्र पि ण्डात्मनि पीठे पूजनीयः, पूजायां च वेद्यमयी या सुधा-सर्वेन्द्रियाह्लादकत्वादत्यन्तस्वीकार्या, या स्वभावत एकापि सती भयशोकहर्षायवस्थावै चित्र्यात् अम्लतिक्तमधुरादिप्रायानेकरसविशेषो पश्लेषणी वीरस्य परभैरवस्य वीरायाश्च स्वात न्त्र्यमय्याः तन्मध्यशक्तेः पीयते-स्वात्मसात्