पृष्ठम्:महार्थमञ्जरी.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
श्रीमन्महेश्वरानन्दविरचिता

मध्ये च परमशिवो महाप्रमावस्वभावः प्रस्फु रति, ततश्च

'सर्वाः शक्तीर्दर्शनस्पर्शनाद्याः
 स्वे स्वे वेद्ये यौगपद्येन विश्वक् ।
क्षित्वा मध्ये हाटकस्तम्भभूत-
 स्तिष्ठन्विश्वाकार एकोऽवभाति ॥'

इति श्रीकक्ष्यास्तोत्रस्थित्या स्वात्मरूपः परमेश्वर एव अन्तश्चक्रदेवताबाह्याभ्यन्तरभिन्नाः करणश क्तयश्च तदावरणदेवतास्थानीयाः, तदर्चनं च स्वशरीरात्मनि महापीठे एव उपपद्यते, तत्र यथा प्रतिमापुत्रिकादयो भावाः स्वांत्मरूपभूतां मुख्यां देवतां प्रति प्रतिनिधिभावेन अध्यवसीयन्ते, तद्वत् स्वदेहस्यैव मुख्यतया पीठत्वम् । अनुक ल्पोपकल्पनया तु स्थण्डिलमण्डलादीनामङ्गी कारः, इति तात्पर्यार्थः ॥ ३४॥

 यश्च अलौकिकः परमेश्वरः स कीदृश्या प्रक्रि यया उपास्य ? इत्याकांक्षायाम् सानुग्रहम् आह