पृष्ठम्:महार्थमञ्जरी.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
श्रीमन्महेश्वरानन्दविरचिता

भूतानि आकाशप्रभृतीनि न परित्यजन्ति, किंतु स्वान्तरखिलं गर्भीकृत्य प्रवर्तते केवलं शिवात् स्वच्छस्वभावात् स्त्यानताधिक्यम् एतेषां भेदः, यद्वत इक्षुरसस्य स्वपाकयुक्तिक्रमात् स्त्यानीभू तस्य माधुर्य गुडपिण्डेन न परित्यज्यते, ततश्च पृथिव्याद्यनाश्रितशिवप्रभृतीनि पञ्चत्रिंशदपि तत्त्वानि कारणवासनानुवृत्तिद्वारा परिस्फुरन्ति, इत्यनया भङ्गया तत्र शिवतत्त्वे पृथिव्यादीनि सर्वाण्यपि सत्कार्यवादमर्यादया अवतिष्ठन्ते । एवं प्रकृतिपुरुषादिषु मध्यवर्तिष्वपि उक्तोभयप्रक्रि यया सर्वाणि उपरितनानि अधस्तनानि च तत्त्वानि संमिलन्ति इति सर्वे सर्वात्मकम् इत्यर्थ निष्कर्षः ॥ २५॥

उक्तरूपस्य तत्त्वप्रपञ्चस्य पिण्डीभूतमर्थसत त्वम् आह

संवंस भुवण विंमम
यंतुलोसेसि तोत्तवल्लिं वे।