पृष्ठम्:महार्थमञ्जरी.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
श्रीमन्महेश्वरानन्दविरचिता

ज्ञातृत्वधर्मा आत्मा
 ज्ञेयस्वभावश्च लोकव्यवहारः।
एकरसां संसृष्टिं
 यत्र गतौ सा खलु निस्तुषा विद्या ॥१६॥

 ज्ञातृत्वधर्माविभिन्नोऽहंभाव आत्मा परमेश्वरः, तत्रैव चिच्छक्तिक्रोडीकार्यात्मीयसद्भावा लोक व्यवहारस्फुरत्ता परामर्शप्राणस्य प्रपञ्चप्रसरस्य हानोपादानादिरर्थक्रिया च इत्येतौ द्वावपि अन्यो न्यप्रतीतिसामरस्यलक्षणं प्राप्ताविति योऽर्थः सा निस्तुषा शुद्धा विद्या, सा खलु इति प्रसिद्ध्यु त्कर्षोपपादनम् ॥ १६॥


१९ निस्तुषेत्यत्र अयं भावः

'शिवशक्तिसदाशिवतामीश्वरविद्यामयीं च तत्त्वदशाम् ।'

इत्यत्र भावप्रत्ययेन प्रकृत्यर्थप्रत्ययेन च मायोत्तीर्णमायान्तर्वर्तिविभागद्वयं बोधितं, तथा च सति

'तुष इव तण्डुलकणिकामावृणुते प्रकृतिपूर्वकः सर्गः ।
पृथ्वीपर्यन्तोऽयं चैतन्यं देहभावेन ।।'

इत्येवं रूपं यदावरणं तत् तुषशब्देनोक्तं तद्रहिता निस्तुषेति ।