पृष्ठम्:महार्थमञ्जरी.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
श्रीमन्महेश्वरानन्दविरचिता

 तेन प्रकारेण अनुभूयमानानां शक्तिसहस्राणाम् एकसंघट्ट ऐक्यम् अनुभवन्नेव सृष्टिसंहाराद्यन्यो न्यविरुद्ध क्रियायोगपद्यभूमिर्भवति, यश्च उद्यमो भैरवः' (१-५) इति शिवसूत्रस्थित्या स्वहृदयोद्यो गस्वभावतया अनुभूयते, यश्च परमस्वच्छन्द इति प्राग्वत् विश्वोत्तीर्ण एव उच्यते, अन्यस्तु विश्वो त्तीर्णविश्वमयः परमशिवभट्टारकः पश्चात् प्रकटयि ष्यते, एवंविधः शिवो नाम भवति, अयंभावः उन्मेषनिमेषात्मनां तत्त्वान्तरदुर्लभेन स्वातन्त्र्येण चिदाह्लादलक्षणशक्तिद्वितयसामरस्यमात्रक्रोडीकृ


 १५ योऽयं नत्वा नित्यविशुद्धौ' इत्यनेन लोकानुग्रहार्थे मङ्गला- चरणपूर्वकं विश्वोत्तीर्ण-विश्वमय-प्रथमपरिस्पन्दात्मप्रकाशस्वभावनिर्देशः कृतः तस्य रूपावतारापेक्षया अत्र विशेषार्थोऽपि यथा

यदयमनुत्तरमूर्ति-
 निजेच्छया निखिलमपि जगत्स्रष्टुम् ।
पस्पन्दे स स्पन्दः
 प्रथमा शिवतत्त्वमुच्यते तज्ज्ञैः ।।

इति । तदनुसारेण संघट्टपदेन त्रिकोणरूपत्तापि धोतिता । तदुस्तै

 'व्यापिनी बिन्दुविलसत्रिकोणाकारतां गता।

इति । एतदेवानिमश्लोके सूचितम् ' हृदयत्रिकोण' इत्यादिना ।

 १६ परशिवभट्टारकस्त्वन समनारूढोऽनाश्रितसंज्ञकः । यच्च अग्रे

वक्ष्यते ' स्थूलेष्वपि ' इत्यत्र श्लोके ।