पृष्ठम्:महार्थमञ्जरी.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
महार्थमञ्जरी

तेच्छाज्ञानाद्युत्तरोत्तरशक्तिपरम्परापरिग्रहौन्मु ख्यात् 'स्वशक्तिप्रचयोऽस्य विश्वम्' (३-३०) इति शिवसूत्रस्थित्या विश्वविक्षोभात्मकम् अन्त र्बहिःशक्तिविचित्रवैचित्र्यविजृम्भणोद्भूतोद्भावन प्रागल्भ्यस्वात्मचैतन्योद्यन्तृतापरिस्पन्दसारः प्र मातृविशेषः परमशिवभट्टारक इति ॥ १३ ॥

अथ क्रमप्राप्तं शक्तितत्त्वं परामृशति

सोचिअ वीसंमिहतं
 णाउं चुं उमुहो होतो।

॥१४॥

स एव विश्वमीक्षितुं
 स्थातुं कर्तुं च उन्मुखो भवन्।


 १७ इत्थं चात्राशयः-यदा बीजानामुद्रेकस्तैरेव योन्याच्छादनं क्रियते, यदा च योन्युद्रेको बीजानामाच्छादनं क्रियते तदा, पीठचक्राचय वव्यूहै। साकारशिवशक्तियुगलकमुत्पद्यते इति ।