पृष्ठम्:महार्थमञ्जरी.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
महार्थमञ्जरी

अत्यन्तस्वच्छता यावत्स्वीकृत्यानवभासनम् ।

इति तन्त्रालोकस्थित्या प्राकट्योद्रेककक्ष्यारूढतया विम्रष्टव्योऽपि असौ मध्याह्नमार्तण्डमण्डलन्या येन तत्तद्रश्मिपरम्परास्फुरणप्राचुर्येण रश्मिवत् गुणसाधर्म्यात् अप्राकट्यावस्थाम् अधितिष्ठति, यथा त्रासादिराहित्यात् अत्यन्तस्वच्छो माणि- क्योपलखण्डः स्फुरदुरुमरीचिमञ्जरीपर्यन्ततयैव माणिक्यवत् उत्कृष्टम् इति न अध्यवसितुं शक्यते, तद्वत् आत्मनोऽपि स्वशक्तितिरोहित- त्वादेव अस्फुटत्वशंका, एवम् उभयस्वभावताया- मेव अस्य विश्वव्यवहारौचित्यम् ॥९॥

 ननु स्फुटत्वमस्फुटत्वं च एतत् अन्योन्यं विरुद्धम् एतद्धर्मद्वयं कथं नाम संगच्छते इत्या- शंक्य तादृशः कश्चिद्विमर्श आम्नायते यद्वत्तया च अस्य परामर्शः पुरुषार्थतया पर्यवस्यति इति उपपादयति

उद्यो जलई पआसो
 लोआलोअस्स मङ्गलपडीवो ।