एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
श्रीमन्महेश्वरानन्दविरचिता
विमरिसदसामुहाण
तद्दह्य मलालितल्लनिच्छथो॥१०॥
ऊर्ध्वो ज्वलति प्रकाशो
लोकालोकस्य मङ्गलप्रदीपः।
विमर्शदशामुखेन
दह्यते मलालितैलनिष्यन्दः ॥१०॥
यो ‘ममेदं, जानामि, मम स्फुरति' इति अशेषव्यवहारानुस्यूतः प्रकाशरूपोऽर्थः स खलु लोक्यमानस्य भावराशेरलोक्यमानस्य खपुष्पादे रभावजातस्य च प्रदीपवत् प्रकाशतया अनुभूयते, स तादृक्प्रकाशाभावेन विश्वस्य अन्धतमसत्वाप त्तिरिति प्रागपि अवोचाम, अत एव हि असो मङ्गलतया उपन्यस्तः, इदमेव हि तन्महन्मङ्गलं यत् स्तम्भकुम्भादीनाम् अन्योन्यस्वभावपरिहा-
पं० १४ ग घ. पु० स्वभावापहारशङ्कां निःस्वभावस्वमभावानाम्
इति पाठः।