पृष्ठम्:महार्थमञ्जरी.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
महार्थमञ्जरी

तत् किमपि अलौकिकं तत्त्वम् आगमेन उन्मी ल्यते ॥५॥

 ननु प्रमाणपथातिक्रान्तं चेत् इदमात्मतत्त्वं, तत्सर्वोऽपि जनः तद्विमर्शं प्रति अधिकारी, न कश्चित् वा स्यात् - अप्रमितत्वाविशेषात् ?, इत्या- शंक्य, नात्र कश्चिदधिकारिविभागक्लेश इत्याह

आणं निरूपणिंजो
 वइरिंको कोबि अंपणो भावो।
अंपविमुहाणं ताणं
 अहिहारिविवहबिंबमो होउ॥६॥


येषां निरूपणीयो
 व्यतिरिक्तः कोऽपि आत्मनोभावः।
आत्मविमुखानां तेषाम्
 अधिकारिविभागविभ्रमो भवतु ॥६॥