पृष्ठम्:महार्थमञ्जरी.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
महार्थमञ्जरी

न्ताज्ञत्वं वा प्रसज्येत नियामकाभावात् , तस्मा दात्मनो जगद्व्यवहारप्रयोजनमनिच्छतापि अङ्गी कार्यम्, प्रयोज्यप्रयोजकभावश्च पर्यन्ततोऽनयो स्तादात्म्यमेव पर्यवसायिष्यति, इति - आत्मप्र काशमयोऽयं विश्वत्र वेद्यवर्गोल्लास इत्यापतितम् । यदुक्तं श्रीप्रत्यभिज्ञायां

'प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना ।
न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता ॥

इति । खलु अविप्रतिपत्तौ, एवंस्थिते तत्रैव आ त्मनि इदमेतादृक् इति वस्तुव्यवस्थापकत्वलक्ष प्पस्वभावविशेषं प्रमाणं प्रति पण्डितस्य पामरस्य वा न कस्यचित् अपेक्षा उत्पद्यते-प्रमातृप्रका शादिव्यतिरेकात्, प्रत्युत तेनैव व्यवस्थाप्यमान वाच प्रमाणस्य, प्रमाणं हि नाम अभिनवोदयः स्वभावविशेषः, सोऽपि स्वभावोऽभिनवोदय इत्यु क्तत्वात्, नवनवोदयश्च तस्य तत्तद्देशकालोप श्लेषावच्छिद्यमानान्योन्यविलक्षणप्रमेयद्वारोपा-