पृष्ठम्:महार्थमञ्जरी.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
श्रीमन्महेश्वरानन्दविरचिता

रूढः कश्चित् विशेषः, न पुनः स्वाभाविको धर्म इति अवधारिताखिलविकल्पविक्षोभक्षुभिताब्धि कल्पम् एकस्वभावमात्मतत्वं प्रति प्रत्यक्षस्य व्यापार एव न उपपद्यते इत्यर्थः, न कोऽप्यर्थ यते इति आत्मनि प्रमाणमिच्छन् आत्मा स्यात् न वा, यदि अनात्मा जडवर्गः तत्प्रमाणापेक्षैव नोपपद्यते । आत्मैव चेत् तर्हि स्वस्मिन् स्वय मेव प्रमाणम् अपेक्षते इति आपतेत । उक्तमर्थं तद्दृष्ट्वा प्रतिपादयति 'कस्य वेत्यादि' गाङ्गो हि प्रवाहः शैत्यप्रसादाद्यनेकगुणोत्कर्षात् अन्तर्बहि स्तापापहारे प्रवीणो भवति ॥ ३॥

 ननु स्तम्भकुम्भादिवत् आत्मनः प्रकाशो न कदाचिदपि स्फुटतया उपलभ्यते, अस्फुटे च अर्थे प्रमाणव्यापारेणैव अवतारितव्यम् ?, इत्या शंक्याह


पं० ९ ग० पु० तदृष्ट्या इति तदृष्टान्तेति पाठान्तरोपेतः पाठः ।