पृष्ठम्:महार्थमञ्जरी.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
श्रीमन्महेश्वरानन्दविरचिता

मान्त्रोन्मेषः, चन्द्रोदयादब्धेरिव कुत्रचित्प्रवृद्धिहे तूल्लङ्घनादिरुत्कटक्षोभको ज्ञानसिद्धोदयः, ततश्च ज्ञानसिद्धाः प्रमेयांशात्मकतया शाक्तसिद्धाः, तद वच्छेदव्यपोहनया शुद्धप्रमातामापन्नाः शाम्भव सिद्धाः, स्वपूर्णसंविस्वातन्त्र्यमयपरमशिवभट्टारक तयेति । तथा च श्रीचक्रक्रमसद्भावे

'ज्ञानं सृष्टिं विजानीयात्स्थितिर्मन्त्रः प्रकीर्तितः ।
संहारं च महाशाक्तं
........
...............

 [ इतोऽनन्तरं सर्वेष्वादर्शपुस्तकेषु त्रुटिर्वर्तते, या वर्तमानपद्यस्य भागारमा, अग्रिमपद्यानां च पूर्णतया टीका अस्तीत्यनुमीयते ]

सृष्टौ तु दश कलाः
 स्थितौ तु द्वात्रिंशद्भवन्ति शक्तयः।
एकादश संहारे
 त्रयोदश तास्तुरीयपर्वाणि ॥४४॥


 ३३ अत्रैव च पञ्च शक्तीः सृष्टिप्रमुखा इत्यस्यान्त............... स्तदेव द्योतयितुमुक्तं तथा च श्रीचक्रेति