अथ भूतपञ्चकमुद्भावयति -- थिण्णस्स कमवसादो इक्खुरसस्स व सिवण्यआखस्त । गुळापण्डा इव पंच वि भूदाई महुरदं ण शुञ्बन्ति ॥ २५ ॥ परिमलोपेता । स्त्यानस्य क्रमवशादिक्षुरसस्येव शिवप्रकाशस्य | गुलपिण्डा इव पञ्चापि भूतानि मधुरतां न मुञ्चन्ति || इति । शिवात्मा खलु प्रकाशः शक्तिसदाशिवादिपरिपाट्यनुसारेण प्रस्तुत भूतपञ्चकपर्यन्तं स्त्यानीभवति । वेदितृस्वभवन्यग्भावाधीनवेद्यतो- त्कर्षात्मकं काठिन्यमनुभवति । यदुक्तं श्रीशिव-- "इत्यादिषट्त्रिंशत्तत्त्वरूपताम् । विद् बिभर्ति रूपाणि तावतो व्यवहारतः || यावत् स्थूलं जडाभासं संहतं पार्थिव धनम् ।" इति । तादृशस्यै चास्य मधुरतां सर्वप्रमातृस्वात्मस्वभावतानुभाव्यपरमशिव- प्रकाशोल्लासात्मकमहाहादोपलक्षणं सामरस्यं पञ्चापि भूतान्याकाशप्रभूतानि न परित्यजन्ति । किन्तु स्वान्तरखिलं गर्भीकृत्यै प्रवर्तन्ते । केवलं शिवात् स्व- स्वभावात् स्त्यानताधिक्यमेतेषां भेदः । यद्वदिक्षुरसस्य स्वपाकयुक्ति- क्रमात् स्त्यानीभूतस्य माधुर्यं गुलपिण्डैर्न परित्यज्यते । यथा च पर- मार्थसारे - spicca "रसफाणितशर्केरिकालखण्डाद्या यथेक्षुरस एव । तद्वदवस्थाभेदाः सर्वे परमात्मनः शम्भोः ॥” इति । यथा च लक्ष्मीतन्त्रे - “संविदेव हि रूप मे स्वच्छस्वच्छन्दनिर्भरा | सौपीक्षुरसबद् योगात् स्त्यानतां प्रतिपद्यते ।। अतो निरूप्यमाणं तचैत्यं चित्वमुपैष्यति ।" १. 'भावाधीनन्य', २. 'स्यास्य', ३. 'व्यव' क. पाठ:. इव', ५. 'सा त्लिक्षु' ग. पाठः. x.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८५
दिखावट