पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी इति । अहन्तायाश्च शिवशक्तिद्वितयरूपत्वादत्रैव तदुद्भावनौचित्यम् । एतेन गाथायाः पूर्णोपादानं व्याख्यातम् ॥ १५ ॥ अथ शुद्धविद्यामुद्द्योतयति -- णाआरो सो अप्पा असहावो अ ळोअववहारो । एकरसं संघाडि जत्थ गआ सा खु णित्थुसा विज्जा ॥ ज्ञाता स आत्मा ज्ञेयस्वभावश्च लोकव्यवहारः । एकरसां संसृष्टिं यत्र गतौ सा खलु निस्तुषा विद्या ॥ इति । ज्ञातृत्वधर्मापि विभिन्नाहम्भावॅ आत्मा परमेश्वरः, तस्यैव चिच्छ क्तिक्रोडीकार्यात्मीयसद्भावो लोकव्यवहारः स्फुरत्तापरामर्शानुप्राणनस्य तस्य प्रपञ्च प्रसरस्य हानोपादानादिभिरर्थक्रिया चेत्येतौ द्वावप्यन्योन्यं प्रतीति- सामरस्यलक्षणां संसृष्टिं प्राप्ताविति योऽर्थः, सा निस्तुषा शुद्धा विद्या । सा च संसृष्टिरेकरसा । एकमभिन्नरूपमन्यतत्त्वदुर्लभोक्तचमत्काराधारतया रस्यमानमधिकरणमस्या इति । ततश्च “सामानाधिकरण्यं च सद्विद्याहमिदंधियोः" इत्युक्तं भवति । यदुक्तमस्मद्गुरुभिः श्रीमातङ्गीस्तोत्रे “स्तनौ घनौ पूर्णसुधौ सुकान्ती तवेशि ! नन्दामि परस्पराभौ । स्थितौ समानाधिकृतौ सुविद्ये! समौ तवैवाहमिदम्प्रप्रकाशौ ।।” - इति । माया प्रेमातृवर्गे प्रमातारं प्रति अहमिति प्रमेयं प्रति त्विदमिति, वैय- धिकरण्यमनयोः संप्रतिपन्नम् । अत्र तु न तथेति सामानाधिकरण्यमेकरस- शब्देनोच्यते । शुद्धिः पुनरस्या बहिष्वेनावभासमानस्यापि वेद्यवर्गस्य यद- हमित्येव प्रथनरूपं स्वाभाविकमौचित्योत्तरं च वपुः, तल्लौकिकैरिदमिति व्यवह्रियते । तद्वयुदासेन यथावस्त्ववभासनात्मकमुत्कृष्टत्वम् । यथा पर्यन्तपञ्चाशिकायां – १ 'र्मावि' क. स्व. पाठः, २. 'वश्वात्मा' ग. पाठः. ३. 'प्राणितस्य प्र क. पाठ:. ४. 'न्य', ५. 'तच्च सा', ६. 'हि' ग. पाठ:. ७. 'यै' क. ग. पाठः,