पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी अथ क्रमप्राप्तं शक्तितस्वं परामृशति --- सो च्चिअ वीस महिउँ गाउं काउं च उम्मुहो होतो। सक्तिसहावो कहिओ हिअअतिओणमहुमसळुळ्ळासो || स एव विश्वमेषितुं ज्ञातुं कर्तुं चोन्मुखो भवन् । शक्तिस्वभावः कथितो हृदयत्रिकोणमधुमांसलोल्लासः || ww इति । स उक्तस्वभावः शिव एव शक्तिस्वभावः कथितः । तस्यैव किञ्चिदुच्छूतावस्थायां शक्तिशब्दव्यपदेश इत्यर्थः । तस्य चायं स्व- भावः – यत् स्वहृदयरूपेणेच्छाज्ञानक्रियात्मकविश्वविकल्पपर्यायकोण- त्रयसामरस्यलक्षणेन नित्यप्रवृत्तचर्वणोत्सवत्वादन्तर्मग्नसंविदानन्दस्पन्दस- न्धुक्षणक्षमेण मधुना मांसलमत्यन्तबृंहितं परिवाइक्रियाईमहातटाकाम्भ:- सम्भारकल्पं 'बहु स्यां प्रजायेय' इत्याम्नायस्थित्या स्वयमेव स्वहृदयोद्यम- वमनोपक्रमात्मानमुल्लासमाह्लादातिशयमनुभवतीति । यदुक्तं श्रीमत्स्तो- त्रावल्यां - “स्फारयस्यखिलमात्मना स्फुरन् विश्वमामृशसि रूपमामृशन् । यत् स्वयं निजरसेन चूर्णसे तत् समुल्लसति भावमण्डलम् ।।” इति । ततश्चायं “गच्छतो निस्तरङ्गस्य जलस्यातितरङ्गिताम् । आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते || " - इत्यादिश्रीशिवदृष्टिदृष्टया यदा स्वहृदयवर्तिनमुक्तरूपमर्थतत्त्वं बहिः- कर्तुमुन्मुखो भवति, तदा शक्तिरिति व्यवहियते । औन्मुख्यं च तदि- च्छया ज्ञानेन क्रियया च भवति । कथित इति । आगमैर्बहुभिरेवंस्वभा- वत्वेनोद्घोषितः । यथा श्रीशिवदृष्टौ - MAN “इत्थं शिवो बोधमयः स एव परनिर्वृतिः । सैव चोन्मुखतां याति स्वेच्छाज्ञानक्रियात्मताम् || सैव शाक्तशरीरादिनारकान्तं हि भूतता ॥" १. 'यस्वरू' क. पाठः २. 'मनस्संवि', ३. 'दि' ग. पाठ:. ४. 'दि' क. पाठः,