परिमलोपेता । २५ वर्यावस्थास्मृतिप्रमोषादन्तः संश्यिते । यथा सर्पदंशाभावेऽपि विषा- वेशशङ्काशाली स्वस्य मनसि सर्पभ्रमदायिनो रज्ज्वादेः पदार्थस्य वस्तु- भूतस्वभावपर्यालोचनोपेक्षायां तात्त्विकसर्पदंशवन्मूर्छामरणादिका मन्तर्व्य- थामुपगच्छति, तद्वदित्युपमया प्रतिपादितमर्थतस्वं हृदयङ्गमीक्रियते । उक्त- रूपे चास्य मोहे स्वशक्तय एव प्रवर्तन्ते । ताश्च वाग्भूमौ परापश्यन्त्यादि- मथ्यो वाचि ब्राह्मीमाहेश्वर्यादयः । संवित्क्रमे स्वात्मस्फुरत्तासारा बामे वरीखेचर्यायाः । प्राणपर्वणि च शरीरनिर्वहणोपक्षीणवृत्तयः प्राणापान- प्रभृतयः । तासां वहन्तेदन्ताद्वितया वगाहनसामर्थ्यादात्मस्वरूपोन्मीलन- वत् तदाच्छादनेऽप्यौचित्यमस्ति । यद्यप्यस्य पश्वभिमतस्यात्मन इच्छादि- शक्तित्रितयानुप्राणनत्वमपरिहार्यम् । तथापि या एताः पारमेश्वर्यामवस्था- यामप्रतिहतस्वातन्त्र्यलक्षणेच्छा विश्वेभेदत्रयानुरूपेण सार्वइयोपबृंहिता ज्ञानशक्तिः तद्वत् सर्वकर्तृत्वात्मिका क्रियाशक्तिश्च, ता एव पशुदशाय कूर्माङ्गभङ्गचा संकुचन्त्यः क्रमादपूर्णताख्यातिरूपमाणवं, वेद्यभेदप्रथास्व- रूपं मायीयं, शुभाशुभानुष्ठानात्मकं कार्मणं च मलमुन्मीलयन्ति, ततश्चार्य संसारीत्युच्यते । एनमेव हि व्यामोहं प्रत्यूहयितुं सदाचार्यचरणराजीव- सपर्या कार्यतयोद्धोष्यते । यदा पुनः स एव लोकः स्वहृदयस्य वास्तवं स्वभाव पर्यालोचयितुमुन्मुखीभवति, तदा न कश्चित् संसारशब्दस्यार्थत- योपलभ्यते । स्वसंरम्भविजृम्भात्मकतयैवास्य विमृश्यमानत्वात् । यथो- क्तमाचार्याभिनवगुप्तपादैः - "स्वतन्त्रः स्वच्छात्मा स्फुरति सततं चेतनशिवः परा शक्तिश्श्रेयं करणसरणिग्रान्तमुदिता । तदा भोगैकात्मा स्फुरति च समस्तं जगदिदं न जाने कुत्रायं ध्वनिरनुपतेत् संसृतिरिति ॥ " इति । यथा चाद्वयोल्लासे "भ्रमः संसारो यत् कथमिव भवेन्मुक्तिरमुत- स्त्वितीयं या वाञ्छा बत जडँधियां सा प्रसरति । १. 'दिम', २. 'थ्यो वास्यामा', ३. 'गप्रवृ', ४. 'पि ए', ५. 'वी', ६. 'यांगभङ्गया', ७. 'ल' क. पाठ: E
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४३
दिखावट