पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी ल्योल्लासमुदग्रमुन्मीलयतोऽस्य महातन्त्रस्येत्यासूत्र्यते । एतच्च व्याख्यातृ- श्रोतृशिक्षामात्रतात्पर्यात् तन्त्रोपोद्धाते साक्षादुपनिबद्धम् । अन्यथा पर मेश्वरप्रणामस्य क्रियामात्रादपि प्रत्यूहव्यपोहसिद्धेः । उक्तरूपं च परमे- श्वरैश्वर्योत्कर्षानुसन्धानमनुसन्धातुस्तादात्म्यमेवोपस्थापयति । यथोक्तं श्री- शिवदृष्टौ - www “अस्मद्पसमाविष्टस्वात्मनात्मनिवारणे । शिवः करोतु निजया नमः शक्त्या ततात्मने (?) ॥” इति । अत एव हि नत्वेति परमेश्वरप्रणामक्रियोत्तरकालं महेश्वरानन्द इत्यु - क्तम् । महेश्वरानन्दो हि नाम श्रीमत्सदाशिवपर्यन्ताशेषशुद्धाशुद्धाधिका- रानुप्रविष्टप्रमातृपरम्पराप्रभाव सर्वस्वाभिभावी नित्यानवच्छिन्नप्रकाशानन्दप रमार्थस्वातन्त्र्यलक्षणः परमशिवभट्टारक एव । तद्भावापन्नोऽयं तन्त्रकृदि- ति यावत् । तद्भावापत्तिश्च तस्य देशिककटाक्षपातशक्तिपातसौभाग्यस्यै समयानुप्रवेशमङ्गलमहाभिषेकसम्पत्संस्कारोपारोहप्रक्षालितमलोपलेपत्वाद्, PUTER औत्तराम्नायाद्यशेषशास्त्रार्थावबोधशिक्षाशालित्वात् स्वस्य च परमेश्वरै- थर्योत्कर्षविमर्शानुस्यूत्युपक्षीणान्तःकरणत्वाञ्चेत्यवगन्तव्यम् । यदुक्तं श्री- निशाटने – ‘त्रिप्रत्ययमिदं ज्ञान' मिति । तच्चोक्तं श्रीकिरणायां – 'गुरुतः शास्त्रतः स्वतः' इति । ततश्च 'यो विपस्थो (?) ज्ञानहेतुश्च दानमात्मज्ञान- मिति श्रीशिवसूत्रस्थित्या स्वयमपरोक्षितात्मीयपारमैश्वर्योल्लासस्य परा- नुजिघृक्षावेशवैवश्येन तन्त्रकृतस्तन्त्रोन्मीलनं प्रत्यौचित्यमासूत्र्यते । अ- न्यथा बाह्यशास्त्रप्रणेतृवद् विप्रलम्भकतामात्रमेव पर्यवस्येत् । यदुक्तं श्रीहं- सभेदे - "सेव्यन्ते गुरवोऽनेके ज्ञानविज्ञानभासुराः । दुर्लभोऽयं गुरुर्देवि! योऽहङ्कारक्षयङ्करः ॥ तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाहङ्कारनिर्मुक्तः केवलो विदितः स्वयम् ॥” इति । बाह्यशास्त्राणां तु , “अन्यथा देवपाण्डित्यं शास्त्रपाण्डित्यमन्यथा | अन्यथा तत्पदं शान्तं लोकाः पश्यन्ति चान्यथा ॥" १. 'ब', २. 'स्यम' क. पा.