पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । इति। "अयमेव सकलनिष्कलात्मा सर्वविधूननावस्थायां निर्वाणरूपस्तुरीयः पादः" इत्युपनिषत् । लौकिको व्यवहारस्तु सकलेन निष्कलेन च द्वाभ्या- मेव चरणाभ्यामुपकल्प्यते । यदाहुः - “शुक्लोऽषिः शुक्लमाविष्टो रक्तं रक्तोऽत्रिराश्रितः | पित्रोदमुना जायतेऽखिलम् || इति । तौ च नित्यशुद्धौ उन्मेषनिमेषविभागव्युदासेन पदार्थान्तरप्रति- बिम्बनक्षमौ । एतदेव हि परमेश्वरस्य तत् पारमैश्वर्य, यदन्तर्बहिश्च ज्ञा- नक्रियाप्रतिबिम्बनांनुप्राणिताशेषविश्वविलासत्वम् । तच स्वातन्त्र्यस्प- न्दस्फुरत्तोद्यमादिशब्दैरागमेषूद्धोष्यते । नित्यशुद्धचा च तयोर्वक्ष्यमाण- विमर्शानुप्राणितत्वं प्रत्याय्यते । यदुक्तं श्रीप्रत्यभिज्ञायां " विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥” इति । तौ नत्वा उत्कर्षकक्ष्यारूढतया विमृश्य । वाङ्मनःकायानां तदेकविषयीकोरलक्षणः ग्रहभिावो हि नमनम्। महाप्रकाशत्वं च परमेश्वरस्य महानुत्कर्षः । तं प्रति तदुपासकस्य प्रदीभावश्चेति द्वितयमपि कण्ठेनोक्तम् । यजननमस्काराग्रुपन्यासमात्रे तु एकतरस्याभिधेयत्वमन्यतरस्यार्थाक्षि- प्तता चेति प्रतिपत्तॄन् प्रत्युभयप्रतिपत्तिसौकर्यं न सम्भवति । अयं च महान् मङ्गलाचारः, यत् परमेश्वरोत्कर्षानुस्मरणं, यस्य च तन्त्रारम्भं प्रत्य- वश्यकर्तव्यत्वम् । यदुक्तं श्रीमत्स्तोत्रावल्यां - ww इति । “सर्वाशङ्काशनिं सर्वालक्ष्मीकालानलं तथा । सर्वामङ्गल्यकल्पान्तं मार्गे माहेश्वरं नुमः ॥" “व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरस्सराः" इति च । एतेन "मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते । वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च" इति महाभाष्यमर्यादया द्वित्रप्रदेशावच्छिन्नमङ्गलानामपि शास्त्राणामूरीकार्यत्वम् । किमुत प्रतिगा- थानुभूयमानपरमेश्वरैश्वर्योत्सवतया वनसारशकलपरिमलवत् सर्वत्रैव मङ्ग- १. 'ता' क. पाठ:● ९. 'करणल', ३. 'म् । जयनम' ग. पाठ: