पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षणमालोचिताप्येषा जीवन्मुक्ति प्रयच्छति । उपर्युपर्यनुस्यूतात सबैश्वर्यसम्पदः || न चैनामर्हति प्राप्तुं क्रूरः कौटिल्यवान् खलः प्रमत्तो मत्सरी भीरुरामयावी मदोद्धतः || ● । 'नास्तिकः स्वल्पधीदुःखी दर्शनान्तरतत्परः । गुरुभक्तिविनिर्मुक्तः कृतनो दुर्मनाः शठः ॥ अश्रद्धालुहकारी रागद्वेषोपरूषितः । चपलप्रकृतिः पापो निष्कृपः कृपणोऽलसः || प्राप्नुयाद् यदि मौर्येण गुरोरेतादृशः पुमान् । उभौ तौ कुळयोगिन्यः शान्ति क्षुभिताः कुवा || अकृत्वा कौळिकी तृप्तिं विष्टरादुद्धरन्निमाम् । उद्घाटयन पठन शृण्वन् व्याचक्षाणश्च नेष्यते || अमन्त्रबिन्दुसंस्पर्श कोशमस्याः परामृशन् । योगिनीनां प्रचण्डानामापानेष्वामिषायते || मूलसंवित्कलामात्रमविगम्याचयन्निमाम् अश्नुते सिद्धिमखिलानविनश्वरसम्पदम् ॥ सिद्धान्तानां यथान्येषां सारं स्यादौत्तरः क्रमः । तथा तस्याप्यशेषस्य सारमेषावधार्यताम् || बाह्यानामान्तराणां च मन्त्राणामुज्ज्वलार्चिपाम् | वीर्यमेषैव बोद्धव्या पराहन्तामयी कला || ज्ञातव्यानां परा काष्ठा कर्तव्यानां परा किया। भाव्यानां च परा भूमिरियमीशेन कथ्येते || सहस्रशोऽपि सन्त्वाज्ञाः शिवभट्टारकप्रभोः । इयं तु तस्य चैतन्यसर्वस्वमिति निर्णयः ।। इयमेव शिवेनोक्ता श्रुतिस्मृत्यादिविस्तरे । अन्यथाकरणे हेतुर्व्याख्यातॄणां मतिभ्रमः ॥ १. 'मेवैष बां', २. 'रुप्य' क. पाठः