पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थनअरी com रीभूतां योगिनीन् अलौकिकैश्चर्यात्मक योगशक्तिसंपन्नां परमेश्वरीं वन्दे स्तौमि अभिवादये च | सर्वथा तादात्म्येन तामनुप्रविशामीति यावत् । तदुक्तं श्रीक्रमकेळौ – 'बन्दनं हि तदनुप्रवेश' इति । तस्याश्च तादृक्तन्त्रप्रयो- जकतया वन्दनीयतीया हेतवस्तत्तद्विशेषणद्वारेण परासृश्यन्ते । तथाहि -- जाग्रदित्यादि । जाग्रदात्मा यः क्षणोऽवस्थाविशेषः । जाग्रदिति कर्तृत्वो- पचारेण जागरैवावस्थोच्यते । तया सह निर्विशेषो वैलक्षण्यशून्यो यः स्वनस्तत्रावतीर्णामशङ्कितमन्तर्यागमनुप्रविष्टाम् | स्वप्नो हि स्फुटास्फुटरूपः । जागरा हि स्फुटरूपा । तत्र स्वतस्यास्फुटत्वांशव्यतिरेकेण केवलं स्फुटतयो- पलभ्यमानायामवस्थायाम् अपरोक्षितामिति यावत् । प्रतिज्ञोत्तरां पूजोप- करणदक्षिणाद्यधिक्षिप्य स्वहस्तोपकल्पिता सुदैव केवलमन्वर्थीक्रियतामिति येयमागू, तया महान्तमुत्कर्षमश्नुवानाम् । अथच लोकस्य वेद्यवर्ग- लक्षणस्य यदुल्लङ्घनं वेदितृस्वभावमात्रपारिशेप्येणावस्थानं, तत्र योग्याया औचित्यवत्याः कौळिकैश्वर्यानुभूतिरूपायाः सिद्धेर्या पदवी दुर्गमत्वदीर्घ- त्वादिपरिहाण्या सद्गुरूपदर्शिता शुद्धा लघ्वी च सरणिः, तत्रत्ये प्रस्थाने विश्वातिशायित्वस्वभावे बद्धोद्यमामुत्सङ्गितोद्योगशक्तिम् । विश्वो लङ्घनप्रगल्भामपि स्वाच्छ्न्यादिदन्ताभूमिमवरुह्य व्यवहरन्तीमित्यर्थः । किं च कन्थाशूलकपालमित्येतन्मात्रैश्वर्याम् । अत्रैव विश्ववृत्तान्तस्यान्तर्भूत- त्वादन्यस्यासत्कल्पत्वमनुपयुक्तत्वं चेति भावः । तत्र कन्था नाम भेदप्र- भेदवैचित्र्यवत्तायामपि पर्यन्तत एकानुसन्धानसाध्यो विश्वव्यवहारः । शूलं पुन: - "इत्थमिच्छाक्रियाज्ञानशक्तिशुलाम्बुजाश्रयः" इति न्यायादिच्छाज्ञानक्रियात्मकं शक्तित्रयम् । कपालं च शरीराहन्ता- धिवासितात्मा परिमितः प्रमाता । यश्चित्तमयो मायाप्रमातेत्युच्यते । तादृ- शीमेनां श्रीकालसङ्कर्षणीरूपां योगिनीं वन्द इत्यक्षरार्थः । प्राकृतेति । संस्कृतं हि प्रकृतिरशेषस्य भाषान्तरस्य । तत्प्रकृतेः संस्कृतादुत्पन्नं प्राकृ तमित्यनेन भाषान्तरात्मकविकृतिशिल्पवैदग्ध्यस्वीकारः, प्रकृतिसौष्ठवपरि- १. 'त' क. पाठः, २. 'द्वारा प' ख. ग. पाठ:. ३. 'व्यवार्ताया' ग. पाठ:.