पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तीति व्युत्पच्या गुरुनाथशरीरावि परमेश्वर मन कारुण्यादवच्छि नममातृरूपं शिष्यमुत्तारपती। यतलागणे--- “कुळाचार्यमाविष्ठाय देवो दीक्षामिता शिवः" इति । यत्रोक्तं श्रीतन्त्रालोके - "गुरुहृदयनिविष्ठः शहरोउ महीता इति । एतेन “दीक्षया मुच्यते जन्तुः प्रतिमेन तथा प्रिये! | गुर्वायत्ता तु सा दीक्षा बद्धबन्धनमोक्षणे || प्रतिभास्वस्वभावस्तु केवली भावसिद्धिदः ।" इति श्रीकिरणप्रक्रिया पुंसां स्वप्रतिभामामनिष्पमाननोक्षानुभावाना- मपि पर्यन्ततः किंचिदेशिकनाथानुग्रहावश्यम्भाव एवेत्युक्तं भवति । येन परमेश्वरस्वातन्त्र्याधी नविजृम्भिते विश्वस्मिन्चेतदाज्ञामन्तरेण तेषां तादृक्- प्रतिभैव न संपद्यते । परमेश्वरालुप्रविष्टशरीरस्यै च भगवतो देशिकनाथस्य दीक्षाघलौकिकक्रियोपक्षेपक्षमत्वमिति । तस्य च कटाक्षपाते सतीत्यनेन केवलं चाक्षुप्येव दीक्षाख्यायते| यावदाणवशाक्तशाम्भवाख्यप्रकारत्रयानु- प्रविष्टास्तत्तदेशकालस्वभावानुम्या धन्य तमौचित्यशालिनः सर्वेऽपि तत्म- काराः परामृश्यन्ते । यतः कटाक्षो नाम गुरोरनुमा प्रत्यनुवेर्शवितुमिटा स्वहृदयसंविन्मयी शाम्भव्याचशेपदीक्षानुस्यूता उक्छक्तिरित्याख्यायते । यदाहु: - "सा च सर्वाव्यसम्पूर्णमात्र संविदमेदिना | गुरुणानुग्रहधिया शिव्ये यदवलोकनम् ॥" इति । तत्र गुरोर्मन्त्रोद्भावनद्वारा शिष्यस्य अवणमाशप्राधान्येन स्वरूपस मावेशदायिनी दीक्षाणवी, कुण्डलिनीशक्तमुलेखनात्मिका मनोव्यापारानु- सन्धेया शाक्ती, सर्वविकल्पमुख्येन स्वस्वरूपाविभिन्नशम्भुसमावे- शस्वभावा शाम्भवीति विवेकः । एवं शक्तिपातस्य तीव्रतीव्रतरत्वा- ९. 'व' क. पाठ: