पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । नन्वेवमनापाससाध्यवर्थ प्रति प्रमातॄणां सौलम्याविशेषात् कथं मुक्तामुक्तव्यवस्थया दैविध्यव्यवहार इत्याचाह गूड़ादी गूहअरो होइ फुडादो यि फुडभरो पक्षो देसिअफडक्यपादे पक्खो पुढमो ण होई धण्णाणं ॥ ६७ ॥ गूढाइ गूहतरो भवति स्फुटादपि स्कुटतर एषः । देशिककटाक्षपाते पक्षः यमो न भवति धन्यानाम् ॥ इति । एषः प्राकरणिकतया पयानोऽर्थो यः स्थूलसूक्ष्मप्रकटोत्र- काशव्यक्ताव्यक्तक्षराक्षरेति विष्णुपुराणप्रक्रिया प्राकट्य प्राकट्यं चेत्या- त्मन्यवस्थाद्वयमुद्भावयति । तत्र च यदगूढं स्तम्भकुम्भादि व्यवहारं प्रति । गूढं वेदान्तादिनिर्णीतमर्थतत्वम् । ततोऽध्ययं गूढतरोऽत्यन्तगुह्यो भ वति । यदुक्तं श्रीत्रिंशिकाशास्त्रे. "एतद्गुचं महागुरूं कथयख मम प्रभो! ।” इति । यश्चास्फुटमन्तरिक्षत्रसूनाहिं प्रति स्फुटः स्तम्भकुम्मादिः प्रकाश- मानः प्रमेयप्रपञ्चः ततोऽपि स्फुटतरः प्रकृष्टत्राकट्यो भवति । तच 'सो कस्स फुटो न होइ कुळणाहो' इत्यत्र वितत्व व्याख्यातम् । एवमुभयस्व- भावतायामस्य स्वातन्त्र्यव्यतिरेकेण नान्यः कश्चिदुपाधिरुपपद्यते । कथं तर्हि मुक्तामुक्तव्यवस्थेति चेत् | विषयविभागादिति श्रमः । तथाहि-दे- शिकस्य कुलाचार्यस्य कटाक्षपाते शक्तिपाताविनाभूते संभवति धन्याना- मपश्चिमजन्मनां केषांचित् प्रमाण प्रथमः पक्षः पूर्वार्धप्रस्तुतो गूढाद् गूढतर इत्येवरूपः कल्पो न भवति, किं तईि, स्फुटात् स्फुटतरः इत्ये- बमाकारः । “दीयते शिवसद्भावः क्षेप्यते पाशसञ्चयः" इति नीत्या दानक्षपणलक्षणदीक्षाविनाभूतो द्वितीय एव तेषां पक्षः सम्प- द्यते । ततश्च देशिककटाक्षपातधन्यानां पुंसां परमशिवीभावलक्षणो मोक्षः, i तदन्येषां पाशैवावेशस्वभावो बन्ध इति व्यवस्थेति तात्पर्यार्थिः । अत्र देशो देशना स्वात्मप्रत्यभिज्ञापनारूपरहस्यार्थोपदेशनात्मा स्वभावोऽस्या- 9. 'ट' ख. ग. पाठः ३. 'ति', ३. 'बावस्व' क. पाठः,