परिमलोपेता । इति । इत्थमेकैकमाषान्येऽप्यन्योन्यावियोगरूपमौचित्यमुपलाल्य तयो- स्तुलाधारण वदत्य (न्त?न्सा) वैपन्यलक्षणमैकात्म्यं हेतुप्रयुक्त्योपबृंहयन्नाह - त्रुटितातङ्केत्यादि । शिवयोगिनो नाम - "न ध्यायतो न जपतः स्याद् यस्याविधिपूर्वकम् | एवमेव शिवाभासस्तं नुमो भक्तिशालिनम् ||" इति श्रीमत्स्तोत्रावलिस्थित्या प्राणधारणायुपरोधव्यतिरेकेण प्रकाशात्म- ना शिवेन सह भूना प्रशंसया नित्ययोगेन च योगं विमर्शात्मानं संबन्ध- मशनुवाना महात्मानः । तेषां या सिद्धिः स्वस्वभावचमत्काराकारा स्फुरत्ता | सा यामळी न कदाचिद् वेद्यवेदकंद्रित यसृष्टिस्वरूपामुभयस्वरूपतामति - कामति । "यस्योन्मेषनिमेषाभ्यां जगतः प्रयोदयौ । तदन्तः कालयोगेन सोमसूय प्रकीर्तिती ।। ज्ञानक्रियात्मनोः शम्भुमरीच्योमैळनात्मकम् ।" इत्यनेकाम्नायप्रक्रिया सङ्कोचविकासरूपज्ञत्वकर्तृत्वापर पर्यायप्रकाशविम- शंसामरस्यात्मकं यामळोल्लासस्वभावत्वमागमेष्वाज्ञायते । तदुक्तमाचार्या- भिनवगुप्तनाथपादैः – 'तत्र ज्ञाता नामोन्मेपनिमेषलक्षणेन सङ्कोचविका- सात्मना ज्ञानक्रियालक्षणेन स्वभावेन स्वपरिस्पन्दनसार एवेति । अस् च यामळस्यैका कोटिः परभैरवसंवित्स्वातन्त्र्य पर्यन्तम् अन्या चात्यन्त जडघटादिप्रकाशपर्यन्तं परिस्फुरति, यत् स्वात्मपरमेश्वरस्योदयविश्रमण - स्वभावम् | अः इति ब्रह्म तत्रागतमहम् (?) इत्यैतरेयोपनिषत्प्रक्रियया नित्योदितोद्योगस्वभावं शिवशक्तिमेळापरूपं रुद्रयामळमित्याख्यायते । तदुक्तं श्रीत्रिंशिकाशास्त्रे – 'इत्येतद् रुद्रयामळम्' इति । अत्र हेतुः त्रुटितातङ्ककळकत्वम् । आतको हि शङ्कानिबन्धनं चाकित्यम् । शङ्का च सन्देहविप्रतिपत्त्याद्यनुप्राणनतया सद्विभातस्वभावैस्वात्मसंविदैकरस्या- स्वादं प्रति प्रत्यूहतयानुभूयते । तस्य चैतत् कळङ्गत्वं, यत् स्वच्छेऽपि स्वात्मनि मालिन्यशङ्कानुप्रवेश्यते । तादृशश्चायमातङ्कस्ट्यति । स्ववासना- १. 'कविनय', २. 'रूपतामु' क. ग. पाठः.' ३. 'ति यस्याः य', ४. 'वसानं प' ख. पाठ.. ५. 'वसं' ग. पाठ:. 2
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८९
दिखावट