च न प्रामाण्यमनुभवति । एवमास्स्वेत्या देरप्रवृत्तप्रवर्तनात्मनो विधिरूप- स्वार्थस्यात्रासङ्गतत्वमित्यादि स्वयमूखम् ॥ ६४ ॥ इत्थमत्याश्चर्यं नैश्चिन्त्यशालिनां योगिनां स्वभावमनुसन्दधानस्त- न्त्रकृत् स्वात्मनोऽपि तेभ्यो वैलक्षण्याभावात् तत्ताड स्वभावतापरामर्श- मांसळमाहादातिशयमनुभववेत दावेशवैवश्योद्रिक्तस्व संविदाटोपगौरवोच्चल चित्तवृत्तिश्चमत्कारोत्तरमाह -- ओ संसारसुहेळ्ळी ओ सुळहं मोक्खमग्गसोहग्गं । खुडिआळा ओ सिवजोईणं जामळी सिद्धी ॥ ६५ ॥ अहो संसारसुखातिशय: अहो सुलभं मोक्षमार्गसौभाग्यम् । त्रुटितातङ्ककळा अहो शिवयोगिनां यामळी सिद्धिः ॥ - इति । आश्चर्य स्खल्वयं संसारलक्षणः सुखातिशयः, यो जननमर- णादिरूपतया बाह्यजनं प्रति क्लेशात्मकः । तथा हेयतया निश्चीयमानोऽपि मोक्षप्रायतयास्माभिरास्वाद्यते । यदुक्तं श्रीमत्स्तोत्रावल्यां -- “दुःखान्यपि सुखायन्ते विषमप्यमृतायते । मोक्षायते च संसारो यत्र मार्गः स शाङ्करः ॥ " इति । आश्चर्य चेदं मोक्षलक्षणस्य सर्वजनमृग्यमाणस्य परमेश्वरानुग्रहक- लभ्यस्यार्थस्य सौभाग्यं हृदयहारित्वं प्रति सौलभ्यम् "अदृष्टमण्डलोऽप्येतत् तिलायाहुतिवर्जितम्" इति श्री त्रिंशिकाशास्त्रादिन्यायादायासशून्यमनुभवनम् । यदळिपिशिता- पभोगादुत्पद्यते । तदुक्तं श्रीमहावनमुनिना - "अळिपिशितपुरन्ध्रीभोगपर्याकुलोऽहं बहुविधकुळयोगारम्भसंभावितोऽहम् । पशुजन विमुखोऽहं भैरवीसंश्रितोऽहं गुरुचरणपरोऽहं मैरवोऽहं शिवोऽहम् ॥ " १. 'रा' क., 'यो' ख. पाढ़ः. २. 'गपूजापरोऽहं' क. पारः-
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८८
दिखावट