पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । यथाचोक्तमभियुक्तैः इति ।। ६० ।। महार्थमञ्जरी “ अन्तर्निरञ्जनं ज्योतिर्बहिरष्टौ च मूर्तयः । परितः परितः शय्या हंसाङ्गरुहतूलिका ||" अथ देशाध्वनेव कालाध्वनाप्यस्य न कश्चित् सङ्कोचकळङ्कोपले इत्युन्मीलयितुमाह -- जाअरसिविणअसोसुत्ततुरीअपव्वपरिपाहिं । चित्तं विअ मणिमाळं विमरिससुत्तेक्कगुब्भमुव्वहइ ॥ ६१ ॥ जोई योगी जागरस्वमसौषुप्ततुरीयपर्वपरिपाटिम् । चित्रामिव मणिमालां विमर्शसूत्रैकगुम्फितामुदहति ॥ इति । इति । यान्येतानि जागरप्रभृतीनि कालक्रमानुप्राणनानि पर्वाणि अवस्थाविशेषाः, तत्र लौकिक्या युक्त्या सर्वसाधारण्येनार्थं विषयीकृत्य चाह्याभ्यन्तरोभयेन्द्रियजन्यं जागरः, अन्तःकरणमात्र हेतुरसाधारणार्थनिर्मा- णात्मा विकल्पः स्वप्नः, सर्वाकारेणार्थस्फुरणशून्यता सौषुप्तम् । यदुक्तं श्रीशिवसूत्रेषु – "ज्ञानं जाग्रत् स्वप्नो विकल्पः अविवेको माया सौषुप्तम्” इति । यच्चोक्तं श्रीप्रत्यभिज्ञायां- इति । -. “सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरो । सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः ।।” “मनोमात्रपथोऽप्यर्क्षेविषयत्वेन विभ्रमात् । स्पष्टावभासा भावानां सृष्टि: स्वप्नपदं मतम् ||" "तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् " १. 'व' ख. ग. पाठः, २. 'ता' क. पाठः. ३. 'थे' क. ल. पाठः, ४. 'क्षि' क. पाठः