परिमलोपेता । च श्रीविज्ञानोद्योते एकमेव प्रियजनोपभोगलक्षणमर्थमवलम्ब्य “शक्तिसङ्गमसंक्षुब्वशक्त्यावेशावसानिकम् | यत् सुखं ब्रह्मतत्त्वस्य तत् सुखं स्वैक्यमुच्यते ||" इत्यत्राणवत्वं, “ लेहनामन्थनाकोटेः स्त्रीसुखस्य पराक् स्मृतेः । शक्त्यभावेऽपि देवेशि ! भवेदानन्दसंप्लवः ॥” इत्यत्र शाक्तत्वम्, "आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् । आनन्दमुद्गतं ध्यात्वा तल्लक्षस्तन्मनो भवेत् ।। " इत्यत्र शाम्भवत्वं च पर्यालोचितमिति ॥ ५८ ॥ १५३ अथ शाम्भवमुपदिशति – हन्त मुहं पडिबिम्बउ पडिविम्बेड तह तं पि अद्दाओ । अद्दाओ उण जस्सि पडिबिम्बइ सो वि णाअन्वो ॥ ५९ ॥ इन्त मुखं प्रतिविम्वतु प्रतिबिम्बयतु तथा तदपि दर्पणः | दर्पण: पुनर्यस्मिन् प्रतिविम्वति सोऽपि ज्ञातव्यः || इति । लोके हि दर्पणादौ स्वच्छे वस्तुन्याभिमुख्येनोलसन्नान- नादिः पदार्थः प्रतिफलनयुक्त्या परिस्फुरतीत्यतिप्रसिद्धोऽयमर्थः । तत्र दर्पणवदनादीनां वास्तवं वपुरत्रैवानन्तरमुपपादयिष्यते । स्थूलया तु दृष्टया मुखतयाभिमतो भावः प्रतिबिम्बनक्रियामनुभवति । आदर्शात्मकश्च तदाधारतया तत्प्रयोजको भवतीत्यस्तु नामैतत् । यः पुनरयमादर्शः स्वच्छतावशादाननादिप्रतिबिम्बस्थलतयानुभूयते, स एव यस्मिन्नत्यन्त - स्वच्छे स्वात्मनि तादृग्रूपतया प्रतिबिम्बति सोऽपि ज्ञातव्यः, यन्मयोऽय- मशेषप्रतिबिम्बनप्रागल्भ्योन्मेषः । ज्ञातव्य इति ज्ञानाई: शक्यज्ञानो वावश्यं ज्ञेय इति वा ग्रैषातिसर्गादिर्या विनेयजनाभिमुखीकाराय बहुप्र कारः कृत्यप्रत्ययार्थोऽनुसन्धेयः । प्रतिविम्वत्वित्यादौ कामचारकरणात्म- १. 'खं वा', २. 'यो', ३. 'टया समु' क. पाठ:. ४. 'णाद्याम' ख पाठः.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७१
दिखावट