पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ महार्थमञ्जरी इत्याचुपपाद्यते । प्रस्तावश्यायं 'अग्यं वेज्जविळासो' 'पुण्णाहन्ताण मुद्दे इत्यत्र विस्तीर्य पर्यालोचितः । अयं चोपायः स्वीक्रियमाणस्यास्य द्रव्य- विशेषस्य विश्ववेद्यविलासात्मकतयावस्थापितस्य "शक्तयोऽस्य जगत् स र्वम्" इति स्थित्या सर्वशक्तिसामरस्यरूपतया निर्णीतत्वाद्, अन्यसमयाचा- रादनुत्तराचारं प्रति तदास्वादनस्य स्फुरत्तापरपर्यायशक्तिस्वभावतयानु- भूयमानत्वाच शाक्त इत्युक्तः । पर्यन्तदृष्ट्या पुनरुपपादितद्रव्यस्वीकार- साध्यस्याह्लादोत्कर्षानुभूतिचमत्कारस्यै स्वस्वभावात्मकतयानुभूयमानत्वा- च्छाम्भव एवेत्यवगन्तव्यम् । यतोऽयं “पामरप्रवृत्तिः प्रमाणमि" ति राजभै- रवसूत्रस्थित्या पुंसां स्वतः प्रवृत्तिविषयतयोपलभ्यते । यतश्च श्रीविज्ञानो- दुद्योते "जग्धिपानरसोल्लासरसानन्द विजृम्भणात् । भावयेद् भरितावस्थौं महानन्दमयो भवेत् ॥" इति । अत्र श्रीविज्ञान भट्टारकांशे एषा शाम्भवी भूतिरिति श्रीमत्क्षेमराजेन व्याख्यातम् । उपलक्षणं चैतत् । तेन विषयपश्चकास्वादसौख्ये सर्वत्रा- प्ययमेव न्यायः । यथा विषयपश्चिकायां PURA "मधुरसरसवीणावेणुगीतादिवाद्य- श्रवणजनितहर्षः शब्दमात्रैकशेषः । तदनु भवविरामप्रस्फुरद्वोधमूर्ति- भवविभवविमुक्तो मुक्तिमाप्नोति सम्यक् ॥ " इत्यादि । यथा च मदीये संविदुलासे - "पुष्पोपहारघनचन्दनवंशताल- वृत्तंप्रयोगमधुसुग्धवधूप्रधानाः । भावाः सहस्रमपि जाग्रतु तत्तदन्तः- प्रहादिनी विजयते परचित्कलैका ।।" इति । तेषु च शाक्तशाम्भवत्वादिकं तत्तत्प्रकरणादिनावगन्तव्यम् । यथा ४. 'र्वस्याप्य' क. पाठः, 40 - १. 'ह्य च स्व’, २. 'सकृतोल्लासवि' क. पाठ:. ३. 'स्था' ख. ५. 'त्य' ख. ग. पाठः. पाठ:.