पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० महार्थमञ्जरी "प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत् तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाशनासु ॥" इति । एतत्प्रसाधनविस्तरप्रयासस्त्वप्रस्तुत इत्यलम् ॥ ५७ ॥ अथ शाक्तमभिव्यक्ति कुळकुम्भमुहासषपाणमहसवतुहे पअहन्ति । ते खु विअप्पड्कुरए रसिआ उघसिङ पअन्धन्ति ॥ ५८ ॥ जे OCENTU ये कुळकुम्भसुधासवपानमहोत्सवसुखे प्रवर्तन्ते । ते खलु विकल्पाङ्कुरान् रसिका उपदंषुं प्रगल्भन्ते ।। इति । ये देशिककटाक्षेपातपूतचेतसो महापुरुषाः कुळस्य षडध्व- स्फारात्मनो वेद्योल्लासस्य यः कुम्भः स्वानन्दस्वभावतया कुम्भयत्यव्याकु- • लमवस्थापयतीति व्युत्पत्त्या प्रतिष्ठाहेतुराधारविशेषः, तत्रत्यो यो लौकिका- लौकिकमाधुर्यसामरस्यास्पदत्वादमृतशब्दवाच्य आसवो भैरवीयं द्रव्यं, तस्य यत् पानमात्मैश्वर्यप्रधानतापरामर्शपूर्वको निर्विशङ्कस्वीकारः स एव महान् मखरूपोऽध्वरात्मा चोत्सवः स्वाहादसाक्षात्कारसम्पत्सौभाग्यं, तस्मिन् विषये प्रवर्तन्ते वेयवेदकभावादिविकल्पविगलनलक्षणप्रकर्षपूर्वकं व्याप्रियन्ते, खलुईतो, ते तत एव हेतोः पाशवशैवादिविचित्र कल्पना- मयान् " “अपीत्वापि भवद्भक्तिसुधामनवलोक्य च । त्वामीश ! त्वत्समाचारमात्रात् सिध्यन्ति जन्तवः ॥” इति श्रीमत्स्तोत्रावलीस्थित्या संस्कारशेषतामात्रानुप्राणनाद् भेदप्रथाविला- सान् उपदंप्रुमत्यन्तसामीप्यरूपत्वात्मतादात्म्यापादनयुक्त्या पुनरुत्पत्तिशू- न्यतौचित्येन चर्वयितुं प्रगल्भन्ते प्रकृष्टं स्थैर्यमनुभवन्ति । यतोऽमी रसि- काः “रसो वै सः” इत्यादिश्रुत्युपपादितं रसं स्वकीयतयानुभवन्ति । १. 'क्षपू' क. पाठः २. 'प्रसाधन' क. ग. पाठ: ३. 'पदेष्ट' क. ख. पाठ: