पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमारी "नादविन्दुलिपिवित्रा गिरस्तिस ऊर्ध्वगविमर्शशीकराः । संहतिस्थितिविसृष्टिधामसु व्याप्तस्त्वदध ईशवल्लभे ! ॥” इति । तच्च तत्त्वदृष्ट्या संहतानां प्रमात्रादीनां संहर्तृस्वभावसंविदग्निमात्र- पारिशेष्यस्वरूपतया निश्चीयते । तच “उद्योगमयमालस्य प्रकाशैकात्मकं तमः । अशून्यं शून्यकल्पं च तत्त्वं किमपि शाम्भवम् || " ८ इति संविदुल्लासन्यायादशून्यमपि शून्यमयी काचित् कक्ष्येवावभासते | अत एव हि तुरीयपर्वणीत्युक्तम् । यत एतत्प्रकाशेऽप्यविकचेन योगिना किमप्यन्तर्विम्रष्टव्यं यदलौकिकस्फुरत्तात्मक भासानुभव सौख्यसम्पद्विजृम्भा- त्मकतया पर्यवस्यति । यदुक्तं श्रीस्पन्दे- “तदा तस्मिन् महाव्योति प्रलीनशशिभास्करे । सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ॥" इति । तत्र च यद्यपि मुख्यया वृत्या शक्तिकल्पनमेवमेतावत्तयेति वा नोपपद्यते, तथाप्युपचारादागमेषु तथाज्ञायते । यदुक्तं स्तोत्रभट्टारके - p “अकथ्यं वा त्रयातीतमुपचारेण गीयते ।" इति । तत्र च ताः शक्तयस्त्रयोदश | ता इति । याः स्रष्ट्रयः स्थापयित्र्यः संहर्ग्यश्च तास्तादात्विकावस्थायां संहर्तृमात्रपारिशेष्येऽपि उद्भविष्यद्वेद्य- वैचिच्यापेक्षया किञ्चिदन्तःकन्दवदवातिष्ठमाना द्वादशेन्द्रियतत्समष्टया- त्मना त्रयोदश संभवन्ति । ताश्च 'इहैकैकत्र सृष्ट्यादौ चक्ररूपता विद्यते' इति श्रीक्रम केळिक्लप्त्या सृष्टिसृष्टिः, सृष्टिस्थितिः, सृष्टिसंहारः, सृष्टितुरीयं, स्थितिसृष्टिः, स्थितिस्थितिः, स्थितिसंहारः, स्थितितुरीयं, संहारसृष्टिः, संहारस्थितिः, संहारसंहार: संहारतुरीयम् इति द्वादशानामिन्द्रिय- स्फुरत्तानाम् 3 “अनाख्याभासयोरत्र नोपदिष्टः पृथङ्मनुः" इति स्थित्या सर्वानुस्यूतया तुरीयसम्मिळतया भासाभट्टारिकया त्रयो दशीभूतानां परिस्पन्दतयाध्यवसीयन्ते । यथा श्रीमहानयप्रकाशे - १. 'रि' क. पाठः, २. 'त्या' ग. पाठः. ३. 'न्ति । इहै' क. पाठः,