पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी "इत्थमेकैव पश्चात्मरूपेण स्फुरति स्वतः । स्वभाव प्रकटीकर्तुं या देवी तामहं श्रये ॥” इति । "आसां मध्यात् तु देवीनां यदैका स्फुरति स्वतः । सर्वास्तदैव सतत सामरस्येन मान्त्यलम् ॥" इति च । श्रीचिद्गनचन्द्रिकायां च- "पञ्चलु स्फुरति देवि ! वृत्तिषु त्वन्मयीषु यदि काचन स्वतः । शवदाशु निखिलास्तदैव ताः सामरस्यमविरुद्ध मान्त्यमूः ॥” इति । यथा च श्रीशिवदृष्टौ - PEMAS "यदेकतरनिर्याणे कार्य जातु न जायते । तस्मात् सर्वपदार्थानां सामरस्यं व्यवस्थितम् ||" इति । अथ स्थितिक्रममाह - स्थितौ द्वाविंशतिर्भवन्ति शक्तयः इति । स्थितिहिं नाम सृष्टानां पदार्थानां यावत्संजिहीर्षोदय मवैयाकुल्येनाव- स्थानम् | यदुक्तं • " स्थितिनीम स्वरूपस्य तत्तद्रूपतया धृतिः ॥" इति । शक्तयश्च ताः शिरथके युगनाथाश्चत्वारः तद्देव्यश्चतत्र इत्यष्टौ । हृदयषट्कोणे साधिकारनिरधिकारविभागेन राजपुत्राणां द्विषट्कम् । तन्मध्ये कुळेश्वरः कुलेश्वरीति द्वाविंशतिः । तत्र पीठान्योड्याणजालॅन्धर- पूर्णगिरिकामरूपरूपाणि चत्वार्यधिष्ठाय युगानां कलिद्वापरत्रेताकृता- त्मनां क्रमेण नाथभूता जाग्रत्स्वप्नसुषुप्तितुर्यवस्थाकान्तस्य विश्वस्य स्था पनार्थमकारोकारमकारनादात्मकप्रणवकलाचतुक मन्त्रोपबृंहितैश्वर्याः, कर्ता ज्ञाता व्यवसिता चे (ति) ता चेति क्रमेण परमकर्तृस्फुरत्तानुप्राणनाश्चत्वारः कर्तृविशेषा युगनाथा इत्युच्यन्ते । तद्देव्यश्च "शृणोति शब्दमोळंबे प्रेक्षते पुष्करद्वये । कराळंवेऽभिधत्ते च सो जिघ्रति गन्धवत् || २ 'स्थमव' क. पाठ: १. 'स्तु देव', 'ला' ख. पाठः, 'स्थापन क' ख. पाठ: