पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमझरी नवात्मा दशदिक्शक्तिरेकादशनिजात्मकः । द्वादशारमहाचक्रनायको भैरवः स्थितः ।। एवं यावत् सहस्रारे निस्संख्यारेऽपि वा विभुः । विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥" इति । एतत्तात्पर्येणैव स्रोत चतुष्टयोपपादितानां पद्धतीनां प्रवृत्तिरित्येताव- न्मात्रपर्यवसायि पूजारहस्यम् । बाह्यस्तु प्रसूनाक्षतासवधूपदीपघण्टादि- स्वभावः प्रपञ्चोऽस्माभिः ‘अधिकं नैव दुष्यती' ति न्यायादाद्रियत इति । एतदुपर्यप्यालोचयिष्यते ॥ ३५ ॥ अथार्चनारहस्यस्योन्मीलितत्वात् क्रमेणाच्चैदेवताचक्ररहस्यमप्यु- द्भावयितुमादाबुद्देशमुपन्यस्यति सिरिपीठपञ्चवाहअणेत्तत्तआवेन्दचक्कए भरह | मरह अ गुरुणं पन्ति पञ्च अ सत्तीओ सिट्टिपमुहाओ ॥ ३६॥ श्रीपीठपञ्चवाहनेत्रत्रयवृन्दचक्राणि स्परत । स्मरत च गुरूणां पकिं पञ्च च शक्ती: सृष्टिप्रमुखाः ॥ इति । श्रीपीठं पञ्चवाहो नेत्रत्रयं वृन्दचक्रमिति यानि चक्राणि तानि स्मरत परामृशत । यत्प्राधान्येनैषामावर्जनीयतया परामर्शः, तां श्रीगुरुनाथानां पकिं च स्मरत | गुरुमण्डलप्राधान्य द्योतनाय पुनरपि स्मरतेत्युक्तम् । सृष्टिप्रमुखाः पञ्च शक्तीश्च स्मरत, याः सृष्टिः स्थितिः संहारो- ऽनाख्या भासेति भिद्यन्ते । श्रीपीठेति तस्य पूज्यतोत्कर्षेण महत्त्वं द्योत्य- ते । महत्त्वं च तदोड्ड्याणादीनामवान्तरपीठत्वेऽपि सर्वप्रतिष्ठाभूमितया प्रधानपीठत्वात् । इयं चाल्पैरेवाक्षरैर्मन्त्रबीजवदनेकार्थोपपादनसमथी । तत्तच्चक्रक्रमानुक्रमणिकारहस्योपदर्शनी वक्ष्यमाणसर्वदेवताविकल्पसङ्ग्रह- प्राधान्यादुद्देशलक्षणा गाथा | यथेयमकृत्रिमा महानायोक्तिः “यत्पीठचक्रार्चितपञ्चवाहप्रकाशमानन्दखमूर्तिं चक्रम् । अष्टाष्टचक्रं प्रविराजते तद् गुरुक्रमौघं सचतुष्टयार्थम् || " इति ॥ ३६ ॥ १. 'म' क. ग. पाठः. wwwwwwww.bac.com