पृष्ठम्:महाभास्करीयम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः ] उच्यतां दिनगण: कलियातो देवमन्त्रिरुधिरौ' च कियन्तौ ॥२०॥ ४ सूर्याचन्द्रमसौ तुलाधरगतौ दृष्टौ मया तत्त्वतो भागद्वदशभिर्द्वयेन च युतौ सूर्यस्य वारोदये | लिप्ताभिः शशिशून्यसागरयुतौ जीवस्य वारे पुनः शुक्रस्थाथ शनैश्चरस्य दिवसे' तुल्यौ कियद्भिदः' ।।२१।। विलिप्ताभिरधिकोऽर्को विज्ञेयो भूधरेन्दुभिः । शोधयेच्च निशानाथाद्विलिप्ता धृतिसंमिताः ||२२|| नाडीभिः कियतीभिरभ्युपगतादह्नां गणादागत- स्तीक्ष्णांशोर्भगणादिकोऽत्र विलयं नीतोऽधुना वात्यया | दृष्ट: सप्ततिरेकरूपसहिता शेष: कलानां मया वक्तव्यो द्युगणो गतश्च सवितुः स्पष्टाश्च या नाडिकाः ॥ २३ ॥ अर्काकवासरपहृतः कश्चिद्दिनानां गणो लब्धौ तत्र न वेद्मि नैव च तयोः शेषौ मया लक्षितौ । यौ तौ मण्डलताडितावथ पुनर्भक्तौ दिनैः स्वैः' पृथक् तत्राप्तं मरुतापनीत मधुना चाग्रे तयोस्तिष्ठतः ॥२४॥ अर्कस्थाश्विनगाब्धिनागशिखिनः शेषः कुजस्योच्यते भूता व्यङ्गन भोष्टशीतकिरणक्षोणीधरक्ष्माभृतः । एताभ्यां पृथगर्कभूमिसुतयोरह्नां गणौ तद्गतं द्वयग्रं चापि तयोविंगण्य गणका व्या वर्णयध्वं क्रमात् ॥२४*॥ भास्करे" मिथुनपर्यवसाने शर्वरी त्रिगुणसप्तघटी स्यात् । अक्षचापगणितं " वद तस्मिन् लम्बकेन सहितं विगणय्य ||२५|| दिवसं C. ' देवमद्रि रुधिरौ A; देवमन्द्रिरुधिरौ B. दिनः B. धृतिसंमता: A, B. गादिकेऽत्र निचिते नीतेऽधुना A, B. ९ नेव च A ; नवे नेव च B. पनीतमधुना A, B. १२ अक्षप्रश्नास्करे C. • दिनदिनै: A; दिनद्भ- " नाडीभिरभ्युपगतादह्नां गणा भागतः । तीक्ष्णांशुर्भग- ६ ° सहिताः शेषा: A, B. " ये A, B. " निवेश- मधुना- पुनर्भक्ते स्वदृष्टे: A; पुनर्भक्ते स्वैर्दृढ़ B. " The verses 23 and 24 do not occur in C. १३ अक्षचापगुणता A, B.