पृष्ठम्:महाभास्करीयम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः ] विमर्दार्धकलाहीनं यत् स्थित्यर्थं कलामितम्' । तत्कालच्छेद्यकस्तेन भास्वद्विम्बं विखण्डयेत् ||६६||' प्रदेशस्तस्य' बिम्बस्य कर्कटेनावगाह्यते । पश्चार्धे गृह्यते व्यक्तं पूर्वे चासौ प्रमुच्यते ||६७|| एवमाशामुखादर्शसकलोरुकलाभृतः । कान्तावदनसंवृत्तवपुषः' शशलक्ष्मणः ||६८|| अपि कार्यो विधिज्र्ज्यानां विशेषो यः स कथ्यते । भूच्छायाया गुणाः' कल्प्या रवेः कक्ष्यासमुद्भवाः ॥६९॥ . भागहार: शशाङ्कस्य करर्ण एव प्रकीर्तितः । शशिवल्लम्बनाल्लब्धं व्यत्ययात् क्षेपशोधने ॥७०॥ ताडितो योजनः कर्णो धात्रीव्यासेन भास्वतः । तयोर्व्यासविशेषेण भूच्छायादैर्घ्यमाप्यते ।।७१॥ पञ्चाहतो रवेः कर्णः षोडशापहृतः फलम् । भूच्छायादैर्घ्यमाख्यातमिन्दुकर्णस्ततः क्षयः ॥७२॥ भूव्यासगुणिते शेषे छायादैर्घ्यहृते फलम् । विष्कम्भार्धहतं भक्तं चन्द्रकर्णेन तत्तमः " ॥७३॥" अन्ये वदन्ति " शशिनो ग्रहणोपदेशं हीनं गुणैर्दशभिरल्पफलान्तरत्वात् । स्थित्यर्धकालमचलं विदधीत तस्मिन् ३५ आद्यन्तयोर्ग्रहणमध्यसमुत्थितं यत् ॥७४ || क्षुण्णा" स्थित्यर्धकालेन भुक्तिः षष्ट्या" समाहृता । समलिप्ते क्षय: स्पर्शे" मोक्षे क्षेपो निगद्यते ॥७५॥ विक्षेपस्तस्य तस्माच्च स्थित्यर्धं च प्रसाध्यते । एवं कर्माविशेषोऽयं विमर्धिस्य वा पुनः ॥७६॥ कलाभृत: A, C; कलाभित: B. २ तत्कालच्छेद्यकं तेन भास्वत्खण्डादि खण्डयेत् A, ६ भूच्छायायां गुणाः " अविकार्यो A, B. प्रदेशसूत्रं A, B. * °संवृत्त: वपुषः B. " धात्रिव्यासेन B. ' छायादीर्घत्वमाप्यते C. 'छाया रवे: C. १० षड्व- second half of this verse १३ भवन्ति A, B. "क्षयस्पर्शे A, B, C. १७ तस्मिंश्च C. "तत्तमः B. २ A, B; भू शापहृत: C. तत्तत: A, B. " In C the reads as follows विष्कम्भार्धहृतं चन्द्रकर्णेन " °रन्यफ° A, B. १४ क्षुण्ण: A. १५. षष्ठ्या B. कर्माविशेषोऽयं A, B. १८